| YouTube Channel

मुदितः (muditaH)

 
Kridanta Forms
Sanskrit
मुद् (मु꣡दँ॒ हर्षे - भ्वादिः - सेट्)
ल्युट् = मोदनम्
अनीयर् = मोदनीयः - मोदनीया
ण्वुल् = मोदकः - मोदिका
तुमुँन् = मोदितुम्
तव्य = मोदितव्यः - मोदितव्या
तृच् = मोदिता - मोदित्री
क्त्वा = मोदित्वा / मुदित्वा
ल्यप् = प्रमुद्य
क्तवतुँ = मुदितवान् / मोदितवान् - मुदितवती / मोदितवती
क्त = मुदितः / मोदितः - मुदिता / मोदिता
शानच् = मोदमानः - मोदमाना
शब्दकल्पद्रुमः
Sanskrit
मुदितः, त्रि, (मुद् + क्त यद्बा, मुदा अस्य जाता ।मुदा + इतच् ।) आनन्दितः यथा, --“आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा ।मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता
”इति शुद्धितत्त्वम्
आलिङ्गनविशेषः तस्य लक्षणं यथा नायि-कया नायकस्य वामपार्श्वे उषित्वा वामपादंतस्योरुद्वयमध्ये स्थापयित्वा उभौ मिलित्वायदवस्थानम् इति कामशास्त्रम्