| YouTube Channel

मुत् (mut)

 
शब्दकल्पद्रुमः
Sanskrit
मुत्,
स्त्री,
(मोदतेऽनया इति मुद् + क्विप् ।)वृद्धिनामौषधम् इति राजनिर्घण्टः
मुत्, [द्]
स्त्री,
(मोदनमिति मुद् + भावे क्विप् ।)हर्षः इत्यमरः २४
(यथा, रघु-वंशे २५ ।“उवाच धात्र्या प्रथमोदितं वचोययौ तदीयामवलम्ब्य चाङ्गुलिम् ।अभूच्च नम्रः प्रणिपातशिक्षयापितुर्मुदं तेन ततान सोऽर्भकः
”)