| YouTube Channel

मुखवाद्यं (mukhavAdyaM)

 
शब्दकल्पद्रुमः
Sanskrit
मुखवाद्यं,
क्ली,
(मुखेन वाद्यम् ।) वक्रनालवाद्यम् ।वाँक इति भाषा इति त्रिकाण्डशेषः
मुखस्य मुखेन वाद्यञ्च शिवपूजान्ते वम्इति शब्देन गालवाद्यम् यथा, --“लिङ्गं निर्म्माय विधिवत् विधिवत् पूजयेच्च तम् ।षडक्षरं जपित्वा वै मुखवाद्यं शुचिस्मिते !
”इति लिङ्गार्च्चनतन्त्रे १५ पटलः
अपि ।“मुखवाद्यं सनृर्त्य हि कृत्वा तु परमेश्वरि ! ।मातृकामन्त्रसहितं मुखवाद्यं सुदुर्ल्लभम्
अकारादिक्षकारान्तमनुलोमविलोमतः ।उच्चार्य्य परमेशानि ! मुखवाद्यं शुचिस्मिते !
सबिन्दुं वर्णमुच्चार्य्य पञ्चाशन्मातृकां प्रिये ! ।अनुलोमविलोमेन सर्व्वेण वरानने !
अनेनैव विधानेन मुखवाद्यं करोति यः ।स सिद्धः सगणः सोऽपि शिवो नात्र संशयः ।मृत्युञ्जयोऽहं देवेशि ! मुखवाद्यप्रसादतः
यस्मिन् काले महेशानि ! असुरो बलवान् भवेत् ।तस्मिन् काले महेशानि ! मुखवाद्यं करोम्यहम्
तत् श्रुत्वा परमेशानि ! असुरा राक्षसाश्च ये ।पलायन्ते महेशानि ! तत्श्रुत्वा परमेश्वरि !
ये नरा भुवि तिष्ठन्ति मुखवाद्यं विना प्रिये ! ।स सर्व्वयातनाभोगी अन्ते कुम्भीरतां व्रजेत्
”इति लिङ्गार्च्चनतन्त्रे पटलः