| YouTube Channel

मुखरोगः (mukharogaH)

 
Wordnet
Sanskrit
Synonyms:
मुखरोगः, मुखामयः
noun
मुखसम्बन्धी रोगः।
"मुखमाधुर्यम् इति एकः मुखरोगः।"
शब्दकल्पद्रुमः
Sanskrit
मुखरोगः,
पुं,
(मुखस्य रोगः ।) वक्त्रामयः (यथा, मार्कण्डेये १५ ३५ ।“पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा प्रपीडितः ।मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते
”)तत्र मुखस्य स्वरूपमाह ।“ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालुच ।गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते
”अथ मुखरोगाणां संख्यामाह ।‘स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा ।दन्तेष्वष्टौ रसज्ञायां पञ्च स्युर्नव तालुनि
कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्व्वसराः स्मृताः ।एवं मुखामयाः सर्व्वे सप्तषष्टिर्मता बुधैः
’मुखरोगाणां निदानान्याह ।‘अनूपपिशितक्षीरदधिमाषादिसेवनात् ।मुखमध्ये गदान् कुर्य्युः क्रुद्धा दोषाः कफोत्तराः
’तत्रौष्ठरोगाः ।तेषां निदानपूर्व्विकां संख्याञ्चाह ।‘पृथग्दोषैः समस्तैश्च रक्तजो मांसजस्तथा ।मेदोजश्चाभिघातोत्थ एवमष्टौष्ठजा गदाः
’तत्र वातिकस्य लक्षणमाह ।‘कर्क्कशौ परुषौ स्तब्धौ कृष्णौ तीव्रसुगन्धिनौ ।दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः
’परुषौ रूक्षौ दाल्येते विदार्य्येते परिपाट्येतेकिञ्चिद्बिदीर्णत्वचौ क्रियेते
पैत्तिकमाह ।‘चीयेते पिडकाभिस्तु सरुजाभिः समन्ततः ।सदाहपाकपिडकौ पीताभासौ पित्ततः
’श्लैष्मिकमाह ।‘सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ ।कण्डूमन्तौ कफादोष्ठौ पिच्छिलौ शीतलौ गुरू
’सान्निपातिकमाह ।‘सकृत् कृष्णौ सकृत् पीतौ सकृत् श्वेतौ तथैव ।सन्निपातेन विज्ञेयावनेकपिडकान्वितौ
’रक्तजमाह ।‘खर्ज्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ ।रक्तोपसृष्टौ रुधिरं स्रवन्तौ शोणितप्रभौ
’मांसजमाह ।‘मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ ।जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात्
’जन्तवः कृमयः मूर्च्छन्ति वर्द्धन्ते मुखादुभ-यतः सृक्कण्योः
*
मेदोजमाह ।‘सर्पिर्मण्डप्रतीकासो मेदसा कण्डुरौ गुरू ।स्वच्छस्फटिकसङ्काशमास्रावं स्रवतो भृशम्
’अभिघातजमाह ।‘क्षतजाभौ विदीर्य्येते पीड्येते चाभिघाततः ।मथितौ समाख्यातावोष्ठौ कण्डूसमन्वितौ
’मथितौ मृदिताविव अतएव क्षतजाभौ रुधि-राभाविति सङ्गतम्
*
अथौष्ठरोगाणांचिकित्सा ।‘गलदन्तमूलदशनच्छदेषु रोगाः कफास्र-भूयिष्ठाः ।तस्मादेतेष्वसकृद्रुधिरं विस्रावयेद्दुष्टम्
चतुर्व्विधेन स्नेहेन मधूच्छिष्टयुतेन ।वातजेऽभ्यञ्जनं कुर्य्यान्नाडीस्वेदञ्च बुद्धिमान्
’चतुर्विधेन स्नेहेन तैलघृतवसामज्जरूपेण ।वेधं शिराणां वमनं विरेकंतिक्तस्य पानं रसभोजनञ्च ।शीताः प्रदेहाः परिषेचनञ्चपित्तोपसृष्टेष्वधरेषु कुर्य्यात्
शिरोविरेचनं धूमः स्वेदः कवल एव ।हृते रक्ते प्रयोक्तव्यं ओष्ठकोपे कफात्मके
मेदोजे स्वेदिते भिन्ने शोधिते कषलो हितः ।प्रियङ्गु त्रिफला लोध्रं सक्षौद्रं प्रतिसार-णम्
’प्रतिसारस्य विधिमाह ।‘दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहनैः ।शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम्
ओष्ठरोगेष्वशेषेषु दृष्ट्वा दोषमुपाचरेत् ।तेषु व्रणत्वं यातेषु व्रणवत् समुपाचरेत्
’अथ दन्तवेष्टरोगाः तत्र दन्तवेष्टरोगाणांनामानि संख्याञ्चाह ।‘शीतादो गदितः पूर्व्वं दन्तपुप्पुटकस्तथा ।दन्तवेष्टः शैशिरश्च महाशैशिर एव
ततः परिदरः प्रोक्तस्ततस्तूपकुशः स्मृतः ।वैदर्भश्च ततः प्रोक्तः खलिवर्द्धन एव
अधिमांसकनामा दन्तनाड्यश्च पञ्च ।दन्तविद्रधिरप्यत्र दन्तवेष्टेषु षोडश
’तत्र शीतादस्य लक्षणमाह ।‘शोणितं दन्तवेष्टेभ्यो यत्राकस्मात् प्रवर्त्तते ।दुर्गन्धीनि सकृष्णानि उत्क्लेदीनि मृदूनि
दन्तमांसानि शीर्य्यन्ते पचन्ति परस्परम् ।शीतादो नाम व्याधिः कफशोणितसम्भवः
’दन्तवेष्टेभ्यः दन्तवेष्टनमांसेभ्यः अकस्मात्अमिघातं विना शीर्य्यन्ते पतन्ति पचन्ति चपरस्परं पाकोप्मणा मांसानि शोणितं पचन्तिशोणितं मांसानि पचति
दन्तपुप्पुटमाह ।‘दन्तयोस्त्रिषु वा यत्र श्वयथुर्जायते महान् ।दन्तपुप्पुटको नाम व्याधिः कफरक्तजः
’दन्तवेष्टमाह ।‘स्रवन्ति पूयं रुधिरं चला दन्ता भवन्ति ।दन्तवेष्टः विज्ञेयो दुष्टशोणितसम्भवः
’अत्र दन्तमूलानीति कर्त्तृपदमध्याहरणीयम्
शैशिरमाह ।‘श्वयथुर्दन्तमूलेषु रुजावान् कफवातजः ।लालास्रावी कण्डुरश्च विज्ञेयः शैशिरो गदः
महाशैशिरमाह ।‘दन्ताश्चलन्ति वेष्टेम्यस्तालु चाप्यवदीर्य्यते ।यस्मिन् सर्व्वजो व्याधिर्महाशैशिरसंज्ञकः
’तालु चाप्यवदीर्य्यते चकारात् दन्तवेष्टौ चाप्यव-दीर्य्येते सप्तरात्रान् मारकश्चायं यत आहभोजः महाशैशिर इत्येष सप्तरात्रान् निह-न्त्यसून्
*
परिदरमाह ।‘दन्तमांसानि शीर्य्यन्ते यस्मिन् स्रवति चाप्यसृक् ।पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः
’उपकुशमाह ।‘वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति हि ।आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनम्
आध्मायते श्रुते रक्ते मुखं पूति जायते ।यस्मिन्नुपकुशः स्यात् पित्तरक्तसमुद्भवः
’आघट्टिताः घृष्टाः
*
वैदर्भमाह ।‘घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् ।चलन्ति रदा यस्मिन् वैदर्भोऽभिघातजः
’संरम्भः शोथः चलन्ति चेति चकाराद्वेदना-दाहपाकाः
*
खलिवर्द्धनमाह ।‘मारुतेनाधिको दन्तो जायते तीव्रवेदनः ।खलिवर्द्धनसंज्ञोऽसौ संजाते रुक् प्रशाम्यति
’सञ्जाते दन्ते
*
अधिमांसकमाह ।हानव्ये पश्चिमे दन्ते महान् शोथो महारुजः ।लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः
हानव्ये हनुभवे पश्चिमे दन्ते
*
पञ्चदन्त-नाडीराह ।‘दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ।’यथेरिता यथा नाडीव्रणे वातपित्तकफसन्नि-पातागन्तुनिमित्ताः पञ्चनाड्यः कथितास्तथात्रा-पीत्यर्थः
*
दन्तविद्रधिमाह ।‘दन्तमांसमलैः सास्रैर्वाह्यान्तःश्वयथुर्महान् ।सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः
’दन्तमांसमलैः दन्तवेष्टगतदोषैः सास्रैः सरक्तै-र्हेतुभिः
*
अथ दन्तवेष्टरोगाणां चिकित्सा ।‘शीतादे हृतरक्ते तु तोये नागरसर्षपान् ।निष्क्वाथ्य त्रिफलाञ्चापि कुर्य्याद्गण्डूषधारणम्
‘कासीसलोध्रकृष्णामनःशिलासप्रियङ्गुतेजाह्वाः ।एषां चूर्णं मधुयुक् शीतादे पूतिमांसहरम्
’तेजाह्वा तेजबल्कल इति लोके ।‘तैलं घृतं वा वातघ्नं शीतादे संप्रशस्यते * ।‘दन्तपुप्पुटके कार्य्यं तरुणे रक्तमोक्षणम्
सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ।शिरोविरेकश्च हितो नस्यं स्निग्धञ्च भोजनम्
विस्राविते दन्तवेष्टे व्रणन्तु प्रतिसारयेत् ।लोध्रपत्तङ्गमधुकलाक्षाचूर्णैर्मधुप्लुतैः
’प्रतिसारयेत् अङ्गुल्या घर्षयेत् पत्तङ्गं चोचकंइति लोके ।‘गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्क्कराः ।चलदन्तस्थैर्य्यकरं कार्य्यं बकुलचर्व्वणम्
भद्रमुस्ताभयाव्योषविडङ्गारिष्टपल्लवैः ।गोमूत्रपिष्टैर्गुटिकां छायाशुष्कां प्रकल्पयेत्तां निघाय मुखे शोथशूलदन्तातुरो नरः ।नातःपरतरं किञ्चिच्चलदन्तस्य भेषजम्
’भद्रमुस्तादिवटिका ।‘तुला घृतं नीलसहाचरस्यद्रोणाम्भसा संश्रपयेद्यथावत् ।ततश्चतुर्भागरसेन तैलंपचेच्छनैरर्द्धपलप्रमाणैः
कल्कैरनन्ताखदिरारिमेद-जङ्घाम्रयष्टीमधुकोत्पलानाम् ।तत्तैलमाश्वेव धृतं मुखेनस्थैर्य्यं द्विजानां विदधाति सद्यः
नीलसहाचरः नीलपुष्पकटरैया अनन्तादुरालभा तदलाभे यवासो ग्राह्यः अरिमेदोदुर्गन्धखदिरः सहाचराद्यतैलम्
*
‘शैशिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनैः ।सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः
क्रियां परिदरे कुर्य्याच्छीतादोक्तां विचक्षणः ।संशोध्योभयतः कायं शिरश्चोपकुशे तथा
काकोडुम्बरिकापत्रैर्व्रणं विस्रावयेद्भिषक् ।लवणैः क्षौद्रयुक्तैश्च सव्योषैः परिसारयेत्
*
‘शस्त्रेणोत्कृत्य वै दर्भं दन्तमूलानि शोधयेत् ।ततः क्षारं प्रयुञ्जीत क्रियाः सर्व्वाश्च शीतलाः
उद्धृत्याधिकदन्तन्तु ततोऽग्निमवचारयेत् ।कृमिदन्तकवच्चात्र विधिः कार्य्यो विजानता
’इयं खलिवर्द्धनस्य चिकित्सा
*
‘छित्त्वाधिमांसं सक्षौद्रैरेतैश्चूर्णैरुपाचरेत् ।वचातेजोवतीपाठास्वर्ज्जिकायावशूकजैः
’तेजोवती तेजवल्कलं स्वर्णजीवन्तीति ।‘क्षौद्रद्बितीयापिप्पल्यः कवले चात्र कीर्त्तिताः ।पटोलनिम्बत्रिफलाकषायश्चात्र धावने
*
‘नाडीव्रणहरं कर्म्म दन्तनाडीषु कारयेत् ।यद्दन्तमध्ये जायेत नाडीदन्तं तदुद्धरेत्
छित्त्वा मांसानि शस्त्रेण यदि नोपरितो भवेत् ।उद्धृत्य दहेच्चापि क्षारेण ज्वलनेन वा
भिनत्त्युपेक्षिते दन्ते हनूकास्थिगतं ध्रुवम् ।समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि
उद्धृते तूत्तरे दन्ते शोणितं प्रस्रवेदति ।रक्ताभिषेकात् पूर्व्वोक्ता घोरा रोगा भवन्ति हि
काणः संजायते जन्तुरर्द्दितं तस्य जायते ।चलमप्युत्तरं दन्तमतो नैवोद्धरेद् भिषक्
धावनं जातिमदनस्वादुकण्टकखादिरैः ।”कशायैरितिशेषः ।कषायैर्जातिमदनकटुकी-स्वादुकण्टकैः ।‘मञ्जिष्ठालोध्रखदिरषष्ट्याह्वैश्चापि यत् कृतम् ।तैलं तत्साधितं तत्र हन्यात् दन्तगतां गतिम्
’जात्यादिचतुष्टयस्य कषायेण मञ्जिष्ठादिचतुष्ट-यस्य कषायेण तैलमिदं पचेत् जातिःचमेली इति लोके तस्याः पत्रं ग्राह्यम् ।मदनो धुत्तुरस्तस्यापि पत्रमत्र ग्राह्यम् ।कण्टकी बृहत्कटाइ तस्या मूलं ग्राह्यम् ।स्वादुकण्टकोगोक्षुरः तस्य पञ्चाङ्गं ग्राह्यम् ।जात्यादितैलम्
*
‘विद्रध्युक्तं विधिं युक्तं विदध्याद्दन्तविद्रधौ ।शस्त्रकर्म्म नरस्तत्र कुशलेनैव कारयेत्
*
अथ दन्तरोगाः तत्र रोगाणां नामानिसंख्याञ्चाह ।‘दालनः कथितः पूर्व्वं कृमिदन्तक एव ।प्रोक्तो भञ्जनको दन्तहर्षो वै दन्तशर्क्करा
कपालिकात्र कथिता श्यावदन्तक एव ।करालसंज्ञ इत्यष्टौ दन्तरोगाः प्रकीर्त्तिताः
’तत्र दालनस्य लक्षणमाह ।‘दीर्य्यमाणेष्विव रुजा यत्र दन्तेषु जायते ।दालनो नाम व्याधिः सदागतिनिमित्तजः
’कृमिदन्तकमाह ।‘कृष्णच्छिद्रचलस्रावी ससंरम्भो महारुजः ।अनिमित्तरुजो वातात् ज्ञेयः कृमिदन्तकः
’ससंरम्भः दन्तमूलशोथयुक्तः तत्रैव स्रावोबोद्धव्यः अनिमित्तरुजः अवघटनादिनिमित्तंविनैव महारुजावान्
*
भञ्जनकमाह ।‘वक्त्रं वक्रं भवेद्यत्र दन्तभङ्गश्च जायते ।कफवातकृतो व्याधिः भञ्जनकसंज्ञकः
’दन्तहर्षमाह ।‘शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्बिजाः ।यत्र स्युर्व्वातपित्ताभ्यां दन्तहर्षः कीर्त्तितः
’दन्तशर्करामाह ।‘मलो दन्तगतो यस्तु कफश्चानिलशोषितः ।शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा
’शर्क्करा सिकता
*
कपालिकामाह ।‘कपालेष्विव दीर्य्यत्सु दन्तेषु समलेषु ।कपालिकेति विज्ञेया दन्तच्छित् दन्तशर्क्करा
’कपालानि मृण्मयघटादिघटकानि तेष्विव ।समलेषु दन्तेषु मलसहितदन्तावयवेषु दीर्य्यत्सुया दन्तशर्क्करा सा कपालिकेति विज्ञेया ।सा कपालिका दन्तच्छित् दन्तनाशिनी
*
श्यावदन्तकमाह ।‘योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः ।श्यावतां नीलतां वापि गतः श्यावदन्तकः
’दग्धः दग्ध इव
*
करालमाह ।‘शनैः शनैः प्रकुरुते यत्र दन्ताश्रितोऽनिलः ।करालान् विकटान् दन्तान् करालो नसिध्यति
’करालान् भयानकान् अयं सुश्रुतेनोक्तः ।संग्रहकारेण गृहीतश्च
*
अथ दन्तरोगाणांचिकित्सा ।‘तैलं लाक्षारसं क्षीरं पृथक् प्रस्थमितं पचेत् ।द्रव्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गुणैः
लोघ्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः ।चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम्
’कट्फलस्थाने पत्तङ्ग इति पाठः ।‘दालनं दन्तचालञ्च दन्तमोक्षं कपालिकाम् ।शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम्
हन्यादाशु गदानेतान् कुर्य्याद्दन्तानपि स्थिरान् ।लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम्
’लाक्षाद्यतैलम्
*
‘जयेत् विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ।तथावपीडैर्व्वातघ्नैः स्नेहगण्डूषधारणैः
भद्रदार्व्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ।कृमिदन्तापहं कोष्णं हिङ्गु दन्तान्तरे स्थितम्
बृहतीभूमिकदम्बीपञ्चाङ्गुलकण्टकारिकाक्वाथः ।गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमनः
नीली वायसजङ्घा कटुतुम्बी मूलमेकैकम् ।सञ्चूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहुः
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य ।निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः
’त्रैवृतस्य सर्पिषः त्रिवृता पक्वस्य सर्पिषः कबलइत्यर्थः ।‘स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव ।पेया रसा यवाग्वश्च क्षीरसन्तानिकाघृतम्
शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ।’अत्र दन्तहर्षे ।‘अच्छिद्रं दन्तमूलानि शर्क्करामुद्धरेद् भिषक् ।लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत्
दन्तहर्षक्रियां चात्र कुर्य्यान्निरवशेषतः ।कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता
’अत्र दन्तशर्क्करायाम् एषा क्रिया दन्तहर्ष-क्रिया
*
‘फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् ।तथातिकठिनं भक्ष्यं दन्तरोगी विवर्ज्जयेत्
’अथ जिह्वारोगाः ।तत्र जिह्वारोगाणां निदाननामसंख्याः प्राह ।‘वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः ।उपजिह्विका गदा जिह्वायां पञ्च कीर्त्तिताः
’तत्र वातजस्य लक्षणमाह ।‘जिह्वानिलेन स्फुटिता प्रसुप्ताभवेच्च शाकच्छदनप्रकाशा ।’स्फुटिता मनाग्विदीर्णा प्रसुप्ता रसानभिज्ञ-तया सुप्तेव शाकच्छदनप्रकाशा शाको मरु-भूमिजो द्रुमस्तद्वत् कण्टकचिता
*
पित्तज-माह ।‘पित्तात् सदाहैरुपचीयते चदीर्घैः सरक्तैरपि कण्टकैश्च
’अयं रोगो लोके जली इति ख्यातः
*
कफजमाह ।‘कफेन गुर्व्वी बहला चिता चमांसोच्छ्रयैः शाल्मलिकण्टकाह्वैः ।’बहलाः स्थूलाः मांसोच्छ्रयैः मांसजकण्टकैः
अलासमाह ।‘जिह्वातले यः श्वयथुः प्रगाढःसोऽलाससंज्ञः कफरक्तमूर्त्तिः ।जिह्वां तु स्तम्भयति प्रवृद्धोमूले जिह्वा भृशमेति पाकम्
’प्रगाढः प्रकर्षेण गाढो दारुणः कफरक्तमूर्त्तिःकफरक्ताभ्यां मूक्तिर्यस्य कफरक्तज इत्यर्थः ।जिह्वास्तम्भेन वायुरप्यत्र बोद्धव्यः भृशपाकेनपित्तञ्च अतस्त्रिदोषोऽयमसाध्यत्वञ्चास्य
*
उपजिह्विकामाह ।‘जिह्वाग्ररूपश्वयथुर्हि जिह्वा-मुत्ताम्य जातः कफपित्तयोनिः ।प्रसेककण्डूपरिदाहयुक्तःप्रकथ्यतेऽसादुपजिह्विकेति
’जिह्वाग्ररूपो जिह्वाग्राकृतिः
*
अथजिह्वारोगाणां चिकित्सा ।‘जिह्वागतविकाराणां शस्तं शोणितमोक्ष-णम् ।गुडूचीपिप्पलीनिम्बकवलः कटुभिः सुखः
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम् ।कण्ठजेष्वनिलोत्थेषु तत्कार्य्यं भिषजा खलु
पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते ।प्रतिसारणगण्डूषनस्यानि मधुरं हितम् ।कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये
पिप्पल्यादिर्मधुयुतः कार्य्यस्तु प्रतिसारणे
उपजिह्वान्तु संलिख्य क्षारेण प्रतिसारयेत् ।शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत्
व्योषक्षाराभयावह्निचूर्णमेतत् प्रघर्षणम् ।उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत्
’अथ तालुरोगाः तत्र तालुरोगाणां नामानिसंख्याञ्चाह ।‘गलशुण्डी तुण्डिकेर्प्पध्रुषः कच्छप एव ।ताल्वर्व्वुदश्च कथितो मांससंघात एव ।तालुपुप्पुटनामा तालुशोषस्तथैवच
तालुपाकश्च कथितास्तालुरोगा अमी नव
’तत्र गलशुण्डीलक्षणमाह ।‘श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धोदीर्घः शोथो ध्मातवस्तिप्रकाशः ।तृष्णाकासश्वासजुष्टं वदन्तिवैद्या व्याधिं कण्ठशुण्डीति नाम्ना
ध्मातवस्तिप्रकाशः वातपूरितचर्म्मपुटतुल्यः
*
तुण्डिकेरीमाह ।‘शोथः स्थूलस्तोददाहप्रपाकीप्रागुक्ताभ्यां तुण्डिकेरी मता तु ।’प्रागुक्ताभ्यां श्लेष्मासृग्भ्याम् तुण्डिकेरी वन-कार्पासीफलं तत्तुल्येति
*
अध्रुषमाह ।‘शोथस्तन्द्रा लोहितः शोणितोत्थोज्ञेयोऽध्रुषः सज्वरस्तीवरुक् ।’कच्छपमाह ।‘कूर्म्मोत्सन्नो वेदनोऽशीघ्रजन्मारोगो ज्ञेयः कच्छपः श्लेष्मणा स्यात् ।’कूर्म्मोत्सन्नः मध्ये प्रोच्चं प्रान्ते नतः
*
ताल्वर्व्वदमाह ।‘पद्माकारं तालुमध्ये तु शोथंविद्याद्रक्तादर्व्वुदं पित्तलिङ्गम् ।’पद्माकारं पद्मकर्णिकाकेशरैरिव पार्श्वतो दीर्घ-मांसाङ्कुरैर्व्वेष्टितम्
*
मांससंघातमाह ।‘दुष्टं मांसं श्लेष्मणा नीरुजञ्चताल्वन्तस्थं मांससंघातमाह ।’तालुपुप्पुटमाह ।‘नीरुक् स्थायी कोलमात्रः कफात्मामेदोयुक्तः पुप्पुटस्तालुदेशे
’तालुशोषमाह ।‘शोषोऽत्यर्थं दीर्य्यते त्तापि तालुश्वासो वातात्तालुशोषोऽयमुक्तः ।’तालुपाकमाह ।‘पित्तं कुर्य्यात् पाकमत्यर्थघोरंतालुन्येनं तालुपाकं वदन्ति
’अथ तालुरोगाणां चिकित्सा ।‘कुष्ठोषणवचासिन्धुकणापाठाप्लवैः सह ।सक्षौद्रैर्भिषजा कार्य्यं गलशुण्डीप्रघर्षणम्
’प्लवः केवचीमोथा गुडतची इति लोके ।‘अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम् ।छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम्
’मण्डलाग्रेण शस्त्रविशेषेण ।‘अतिच्छेदात् स्रवेद्रक्तं ततो हेतोर्म्रियेत ।हीनच्छेदाद्भवेच्छोथो लालास्रावो भ्रम-स्तथा
तस्मात् वैद्यः प्रयत्नेन दृष्टकर्म्मा विशारदः ।गलशुण्डीं तु संछिद्य कुर्य्यात् प्राप्तामिमांक्रियाम्
पिप्पल्यतिविषाकुष्ठवचामरिचनागरैः ।क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत्
वचामतिविषापाठारास्नाकटुकरोहिणीः ।निष्क्वाथ्य पिचुमर्द्दञ्च कवलं तत्र कारयेत्
तुण्डिकेर्य्यध्रुषे कूर्म्मे संघाते तालुपुप्पुटे ।एष एव विधिः कार्य्यो विशेषः शस्त्रकर्म्मणि
तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम् ।स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः
’अथ गलरोगाः तत्र गलरोगाणां नामानिसंख्याञ्चाह ।‘रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव ।अधिजिह्वश्च बलयोऽलासनामैकवृन्दकः
ततो वृन्दः शतघ्नी गिलायुः कण्ठविद्रधिः ।गलौघः प्रस्वरघ्नश्च मांसतानस्तथैव
विदारी कण्ठदेशे तु रोगा अष्टादश स्मृताः
’तत्र पञ्चानामपि रोहिणीनां सामान्यसंप्राप्ति-माह ।‘गलेऽनिलः पित्तकफौ मूर्च्छितौप्रदूष्य मांसञ्च तथैव शोणितम् ।गलोपसंरोधकरैस्तथाङ्कुरै-र्निहन्त्यसून् व्याधिरयं हि रोहिणी
’अनिलः मूर्च्छितः प्रवृद्धः पित्तकफौ चमूर्च्छितौ पित्तं वा मूर्च्छितं कफो वा मूर्च्छितः ।ननु त्रयोऽपि मूर्च्छिताः पृथग्दोषजाया अवि-वक्षमाणत्वात्
*
तस्य वातजाया लक्षण-माह ।‘जिह्वासमन्ताद्भृशवेदनास्तुमांसाङ्कुराः कण्ठनिरोधनाः स्युः ।सा रोहिणी वातकृता प्रदिष्टावातात्मकोपद्रवगाढयुक्ता
’समन्तात् जिह्वायाः सर्व्वतः वातात्मकोपद्रव-गाढयुक्ता स्तम्भादिभिरतिशयेन युक्ता
*
पित्तजामाह ।‘क्षिप्रोद्गमाक्षिप्रविदाहपाकातीव्रज्वरा पित्तनिमित्तजाता ।’श्लेष्मजामाह ।‘स्रोतोनिरोधिन्यपि मन्दपाकागुर्व्वी स्थिरा सा कफसम्भवा तु ।’स्रोतोऽत्र कण्ठस्रोतः
*
सन्निपातजामाह ।‘गम्भीरपाकिन्यनिवार्य्यवीर्य्यात्रिदोषलिङ्गा त्रिभवा भवेत् सा ।’रक्तजामाह ।‘स्फोटैश्चिता पित्तसमानलिङ्गासाध्या प्रदिष्टा रुधिरात्मिका तु ।’रक्तजेतरा संहारकत्वावधिमाह ।‘सद्यस्त्रिदोषजा हन्ति त्र्यहात् कफसमुद्भवा ।पञ्चाहात् पित्तसंभूता सप्ताहात् पवनोत्थिता
’कण्ठशालूकमाह ।‘कोलास्थिमात्रः कफसम्भवो योग्रन्थिर्गले कण्टकशूकभूतः ।खरः स्थिरः शस्त्रनिपातसाध्य-स्तं कण्ठशालूकमिति ब्रुवन्ति
’कण्टकशूकभूतः कण्टकवच्छूकवच्च वेदनाजनकः ।अधिजिह्वामाह ।‘जिह्वाग्ररूपः श्वयथुः कफात्तुजिह्वोपरिष्टादसृजैव मिश्रात् ।ज्ञेयोऽधिजिह्वः खलु रोग एषविवर्ज्जयेदागतपाकमेनम्
’असृजा मिश्रादेवेत्यन्वयः
*
बलयमाह ।‘बलाश एवायतमुन्नतञ्चशोथं करोत्यन्नगतिं निवार्य्य ।तं सर्व्वथैवाप्रतिवार्य्यवीर्य्यंविवर्ज्जनीयं बलयं वदन्ति
’अलासमाह ।‘गले तु शोथं कुरुतः प्रवृद्धौश्लेष्मानिलौ श्वासरुजोपपन्नम् ।मर्म्मच्छिदं दुस्तरमेतदाहु-रलाससंज्ञं भिषजो विकारम्
’मर्म्मच्छिदं हृदयमर्म्मणि छेदेनेव वेदनाजनकम्
एकवृन्दमाह ।‘वृत्तोन्नतोऽन्तः श्वयथुः सदाहःसकण्डुरोऽपाक्यमृ दुर्गुरुश्च ।नाम्नैकवृन्दः परिकीर्त्त्यतेऽसौव्याधिर्ब्बलाशः क्षतजप्रसूतः
’अन्तः गलमध्ये अपाकी ईषत्पाकी अमृदुःईषन्मृदुः
*
वृन्दमाह ।‘समुन्नतं वृन्दममन्ददाहंतीव्रज्वरं वृन्दमुदाहरन्ति ।तच्चापि पित्तक्षतजप्रकोपाद्-विद्यात् सतोदं पवनात्मकन्तु
’शतघ्नीमाह ।‘वर्त्तिर्घना कण्ठनिरोघिनी तुचितातिमात्रं पिशितं प्ररोहैः ।अनेकरुक् प्नाणहरी त्रिदोषाज्ञेया शतघ्नीसदृशी शतघ्नी
’घना कठिना अनेकरुक् वातपित्तकफजतोद-दाहकण्ड्वादियुक्ता शतघ्नीसदृशी लौहकण्टक-संछन्ना शतघ्नी महती शिला तत्तुल्या यतःप्राणहरी
*
गिलायुमाह ।‘ग्रन्थिर्गले त्वामलकास्थिमात्रःस्थिरोऽल्परुक् स्यात् कफरक्तमूर्त्तिः ।संलक्ष्यते सक्तमिवासितञ्चस शस्त्रसाध्यस्तु गिलायुसंज्ञः
’गलविद्रधिमाह ।‘सर्व्वं गलं व्याप्य समुत्थितो यःशोथो रुजः सन्ति यत्र सर्व्वाः ।स सर्व्वदोषैर्गलविद्रधिस्तुतस्यैव तुल्यः खलु सर्व्वजस्य
’गलौघमाह ।‘शोथो महान् यस्तु गलावरोधीतीव्रज्वरो वायुगतेर्निहन्ता ।कफेन जातो रुधिरान्वितेनगले गलौघः परिकीर्त्त्यतेऽसौ
’वायुगतेर्निहन्ता उदानवायुगतिरोधकः
*
स्वरघ्नमाह ।‘यस्ताम्यमानः श्वसिति प्रसक्तंभिन्नस्वरः शुष्कविमुक्तकण्ठः ।कफोपदिग्धेष्वनिलायनेषुज्ञेयः रोगः श्वसनात् स्वरघ्नः
’ताम्यमानस्तमः पश्यन् शुष्कविमुक्तकण्ठःशुष्को विमुक्तोऽस्वाधीनः कण्ठो यस्य सः ।अखाधीनता भुक्तं गिलितुमशक्यत्वात् अनि-नायनेषु वायुवर्त्मसु श्वसनात् वातात्
*
मांसतानमाह ।‘प्रतानवान् यः श्वयथुः सुकष्टोगलोपरोधं कुरुते क्रमेण ।स मांसतानः कथितावलम्बीप्राणप्रणुत् सर्व्वकृतो विकारः
’प्रतानवान् विस्तारवान् सुकष्टः अतिशयितंकष्टं यत्र सः
*
विदारीमाह ।‘सदाहतोदं श्वयथुं सुताम्र-मन्तर्गले पूतिविशीर्णमांसम् ।पित्तेन विद्याद्बदने विदारींपार्श्वं विशेषात् तु येन शेते
’पार्श्वे विशेषात् तु येन शेते पुरुपो येनपाश्वेन विशेषाद्बाहुल्येन शेते तस्मिन् पार्श्वे साविदारी भवति इत्यर्थः
*
अथ गलरोगाणां चिकित्सा ।‘रोहिणीनान्तु साध्यानां हितं शोणितमोक्ष-णम् ।वमनं धूमपानञ्च गण्डूषो नस्यकर्म्म वा
वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत् ।सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः
विस्राव्य पित्तसंभूतां सिताक्षौद्रप्रियङ्गुभिः ।घर्षयेत् कवलो द्राक्षापरूषैः क्वथितैर्हितः
आगारधूमकटुकैः कफजां प्रतिसारयेत्
’आगारधूम झुल इति लोके कटुकानि शुण्ठी-पिप्पलीमरिचानि ।‘श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् ।नस्यकर्म्मणि दातव्यं कवलें कफोदये
’श्वेता अपराजिता ।‘पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम् ।विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत्
एककालं यवान्नं वा भुञ्जीत स्निग्धमल्पशः ।उपजिह्वकवच्चापि साधयेदधिजिह्वकम्
एकवृन्दन्तु विस्राव्य विधिं शोधनमाचरेत् ।एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत्
गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत् ।अमर्म्मस्थं सुसम्पक्वं छेदयेत् गलविद्रधिम्
’अथ सामान्यानां कण्ठरोगाणां चिकित्सा ।‘कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्म्मभिः ।चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत्
क्वाथं दद्याच्च दार्व्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् ।हरीतकीकषायो वा हितो माक्षिकसंयुतः
कटुकातिविषादारुपाठामुस्ताकलिङ्गकाः ।गोमूत्रक्वथिताः पीताः कण्ठरोगविनाशनाः
मृद्वीकाकटुकाव्योषदार्व्वीत्वक्त्रिफलाघनम् ।पाठां रसाञ्जनं दारु तेजोह्वेति सुचूर्णितम्
क्षौद्रयुक्तं विधातव्यं गलरोगे महौषधम् ।योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः
यवाग्रजं तेजवतीञ्च पाठांरसाञ्जनं दारु निशां सकृष्णाम् ।क्षौद्रेण कुर्य्यात् गुटिकां मुखेनतां धारयेत् सर्व्वगलामयेषु
’अथ समस्तमुखरोगाः तत्र तेषां निदानंसंख्याञ्चाह ।‘पृथग्दोषैस्त्रयो रोगाः समस्तमुखजाःस्मृताः ।’तत्र वातिकस्य लक्षणञ्चाह ।“स्फोटैः सतोदैर्व्वदनं समन्ताद्-यत्राचितं सर्ब्बसरः सवातात्
*
पैत्तिकमाह ।‘रक्तैः सदाहैः पिडकैः सुपीतै-र्यत्राचितं चापि पित्तकोपात्
*
श्लैष्मिकमाह ।‘अवेदनैः कण्डुयुतैः सवर्णैर्यत्राचितं चापि वै कफेन ।’अवेदनैः ईषद्वेदनैः यत उक्तं सुश्रुतेन ।अल्पवेदनैरिति
*
मुखरोगेष्वसाध्यानाह ।‘ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः ।दन्तवेष्टेषु वर्ज्यौ तु त्रिलिङ्गगतिशौषिरौ
’त्रिलिङ्गगतिः त्रिदोषजा नाडी महाशौषि-रश्च ।‘दन्तेषु सिध्यन्ति स्यावदालनभञ्जनाः ।जिह्वारोगेष्वालसस्तु तालुजेष्ववंदन्तथा
स्वरघ्नो बलयो वृन्दो बलाशः हि दारुणः ।गलौघो मांसतानश्च शतघ्नी रोहिणी गले
असाध्याः कीर्त्तिता ह्मेते रोगा दश नवो-त्तराः ।तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत्
’अथ समस्तमुखरोगाणां चिकित्सा ।‘वातात् सर्व्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ।तैलं वातहरैः सिद्धं हितं कवलनस्ययोः
*
पित्तात्मके सर्व्वसरे शुद्धकायस्य देहिनः ।सर्व्वपित्तहरः कार्य्यो विधिर्मधुरशीतलः
*
प्रतिसारणगण्डूषधूमसंशोधनानि ।कफात्मके सर्व्वसरे क्रमं कुर्य्यात् कफापहम्
*
मुखपाके सिरावेधः शिरसश्च विरेचनम् ।मधुमूत्रघृतक्षीरैः शीतैश्च कवलग्रहः
जातीपत्रामृताद्राक्षायासदार्व्वीफलत्रिकैः ।क्वाथः क्षौद्रयुतः शीतो गण्डूषो मुखपाकनुत्
कार्य्यञ्च बहुधा नित्यं जातीपत्रस्य चर्व्वणम् ।कृष्णजीरककुष्ठेन्द्रयवचर्व्वणतस्त्र्यहात् ।मुखपाकव्रणक्लेददौर्गन्ध्यमुपशाम्यति
पटोलनिम्बजम्बाम्रमालतीनवपल्लवैः ।पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने
पञ्चपल्लवजः क्वाथस्त्रिफलासम्भ वोऽथवा ।मुखपाके प्रयोक्तव्यः सक्षौद्रो मुखधावने
स्वरसः क्वथितो दार्व्व्या घनीभूतो रसक्रिया ।सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा
सप्तच्छदोशीरपटोलमुस्त-हरीतकीतिक्तकरोहिणीभिः ।यष्ट्याह्वराजद्रुमचन्दनैश्चक्वाथं पिबेत् पाकहरं मुखस्य
’राजद्रुमः धनवहेरा इति लोके ।‘तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव ।क्षौद्राज्यदिग्धकल्कस्य गण्डूषो मुखपाकनुत्
आस्वादिता सकृदपि मुखगन्धं सकलमपनयति ।त्वग्वीजपूरफलजा पवनमबाध्यञ्च नाशयति
हरिद्रां निम्बपत्राणि मधूकं नीलमुत्पलम् ।तैलमेभिर्व्विपक्तव्यं मुखपाकहरं परम्
१०
यष्टीमधुपलमेकं त्रिंशन्नीलोत्पलस्य तैलस्य ।प्रस्थं तद्द्विगुणपयोविधिना पक्वं तु नस्येन
निशि वदनस्य स्रावं क्षपयति गात्रस्य दोष-संघातम् ।कचखर्व्वत्वमवश्यं क्रमशोऽभ्यङ्गेन जन्तूनाम्
११इति मुखरोगाधिकारः इति भावप्रकाशः
*
अपि ।तण्डूलीयकगोक्षूरमूलं पीतं पयोऽन्वितम् ।कामलादिहरं प्रोक्तं मुखरोगहरं तथा
१२
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत्
बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्
१३
’इति गारुडे १८८ १९८ अध्यायौ
(तथाचास्य सलक्षणचिकित्सितम् ।“मुखामये मारुतजे तु शोष-कार्कश्यरौक्ष्याणि चलारुजश्च ।कृष्णारुणं निष्पतनं सुशीतंप्रस्रंसनस्पन्दनतोदभेदाः
तृष्णाज्वरस्फोटकतालुदाहा-धूमायनञ्चाप्यवदीर्णता ।पित्तात् समूर्च्छा विविधारुजश्चवर्णाश्च शुक्लारुणवर्णवर्ज्ज्याः
कण्डुर्गुरुत्वं सितविज्जलत्वंस्नेहोऽरुचिर्जाड्यकफप्रसेकौ ।उत्क्लेशमन्दानिलता तन्द्रारुजश्च मन्दाः कफवक्त्ररोगे
सर्व्वाणि रूपाणि तु वक्त्ररोगेभवन्ति यस्मिन् तु सर्व्वजः स्यात् ।संस्थानदूष्याकृतिनामभेदा-चैते चतुःषष्टिविधा भवन्ति
शालाक्यतन्त्रे विहितानि तेषांनिमित्तरूपाकृतिभेषजानि ।यथाप्रदेशन्तु चतुर्व्विधस्यक्रियां प्रवक्ष्यामि मुखामयस्य
”इति मुखरोगः
*
‘शुक्ततिक्तकटुक्षौद्रकषायैः कवलग्रहः ।धूमः प्रधमनं शुद्धिरधश्छर्द्दनलङ्घनम्
भोज्यञ्च मुखरोगेषु यथास्वन्दोषनुद्धितम् ।पिप्पल्यगुरुदार्व्वीत्वग् यवक्षारो रसाञ्जनम्
पाठां तेजोवतीं पथ्यां समभागं सुचूर्णितम् ।मुखरोगेषु सर्व्वेषु सक्षौद्रं तद्विधारयेत्
सीधुमाधवमाध्वीकैः श्रेष्ठोऽयं कवलग्रहः ।तेजोह्वामभयामेलां समङ्गां कटुकां घनम् ।पाठां ज्योतिष्मतीं लोघ्रं दार्व्वीं कुष्ठञ्च चूर्णयेत् ।दन्तानां घर्षणञ्चैव स्रावकण्डूरुजापहम्
’‘गृहधूमो यवक्षारपाठाव्योषं रसाञ्जनम् ।तेजोह्वा त्रिफला लोध्रं चित्रकञ्चेति चूर्णितम्
सक्षौद्रं धारयेदेतत् गलरोगविनाशनम्
’इति कालकचूर्णम्
*
मनःशिला यवक्षारो हरितालं ससैन्धवम् ।दार्व्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम्
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत् ।मुखरोगेषु श्रेष्ठं पीतकं नामकीर्त्तितम्
’इति पीतकचूर्णम्
*
‘कटुकातिविषापाठा दार्व्वीमुस्तकलिङ्गकाः ।गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः
स्वरसः क्वथितो दार्व्व्या घनीभूतीरसक्रिया ।सक्षौद्रमुखरोगासृग्दोषनाडीव्रणापहा
तालुशोषे त्वतृष्णास्य सर्पिरौत्तरभक्तिकम्
लावणं मधुराः स्निग्धाः शीताश्वैव रसा हिताः ।मुखपाके शिराकर्म्म शिरःकायविरेचनम् ।मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहः
सक्षौद्रास्त्रिफलापाठा मृद्वीकाजातिपल्लवाः ।कषायतिक्तकाः शीताः क्वाथाश्च मुखधावनाः ।तुलां खदिरसारस्य द्विगुणामरिमेदसः
प्रक्षाल्य जर्ज्जरीकृत्य चतुर्द्द्रोणेऽम्भसः पचेत् ।द्रोणशेषं कषायन्तं पूत्वा भूयः पचेच्छनैः
ततस्तस्मिन् घनीभूते चूर्णीकृत्थाक्षभागिकम् ।चन्दनं पद्मकोशीरं मञ्जिष्ठां धातकीं घनम्
प्रपुण्डरीकं यष्ट्याह्वत्वगेलापत्रकेशरम् ।लाक्षां रसाञ्जनं मांसीं त्रिफलां लोध्रबालकम्
रजन्यौ फलिनीमेलां समङ्गां कट्फलं वचाम् ।यवामगुरुपत्तङ्गगैरिकाञ्जनमावपेत्
लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान् ।कर्पूरकुडवञ्चापि पुनःशीतेऽवतारिते
ततस्तु गुलिकाः कार्य्याः शुष्काश्चास्येन धार-येत् ।तैलञ्चानेन कल्केन कषायेण साधयेत्
दन्तानाञ्चलनभ्रंशशौषिर्य्यक्रिमिरोगनुत् ।मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम्
स्रावोपलेपपैच्छिल्यवैखर्य्यगलरोगनुत् ।दन्तास्यगलरोगेषु सर्व्वेषां तत्परायणम्
’इति खदिरादिगुटिकातैलञ्च
इति मुख-रोगचिकित्सा
इति चरके चिकित्सास्थाने२६ अध्यायः
)