| YouTube Channel

मुक्तिदं (muktidaM)

 
शब्दकल्पद्रुमः
Sanskrit
मुक्तिदं,
क्ली,
(मुक्तिं ददातीति मुक्ति + दा +कः ।) भगवन्नामविशेषः यथा, --“अल्पाक्षरञ्च बह्वर्थं महासारञ्च मुक्तिदम् ।नानासिद्धिप्रदातारं परं चित्तानुरञ्जकम्
गुह्यात् गुह्यतरं चान्यन्नाम चाष्टाक्षरं परम् ।मन्त्रं सुखसमुच्चार्य्यमशेषार्थप्रसाधकम्
प्राह नारायणायेति नमोऽन्ताद्यों नियोगतः ।ओमित्येकाक्षरे मन्त्रे स्थितः सर्व्वगतो हरिः ।माधवायेति वै नाम धर्म्मकामार्थमोक्षदम्
”इति वह्निपुराणम्
मुक्तिदातरि, त्रि
(यथा, देवीभागवते १० ।“तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणा-न्तथा
”)