| YouTube Channel

मुक्तिः (muktiH)

 
Apte
English
मुक्तिः [muktiḥ],
f.
[मुच्-क्तिन्]
Release, liberation, deliverance
मुक्तिः सातिमुक्तिः Bṛi.
Up.*
3.1.3.
Freedom, emancipation.
Final beatitude or emancipation, absolution of the soul from metempsychosis
अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः
N.*
2.1. (where मुक्ति has sense 1 also).
Leaving, giving up, abandoning, avoiding
संसर्गमुक्तिः खलेषु
Bh.*
2.62.
Throwing, hurling, letting off, discharging.
Unloosing, opening.
Discharge, paying off (as a debt).
Comp.
क्षेत्रम् an epithet of Benaras.
a place where final emancipation is attainable. -पतिः lord of beatitude. -मार्गः the way to final beatitude. -मुक्तः frank-incense.
Apte 1890
English
मुक्तिः f. [मुच्-क्तिन्] 1 Release, liberation, deliverance.
2 Freedom, emancipation.
3 Final beatitude or emancipation, absolution of the soul from metempsychosis
अधिगत्य जगत्यधीश्वरादय मुक्तिं पुरुषोत्तमात्ततः N. 2. 1 (where पुक्ति has sense {1} also).
4 Leaving, giving up, abandoning, avoiding
संसर्गमुक्तिः खलेषु Bh. 2. 62.
5 Throwing, hurling, letting off, discharging.
6 Unloosing, opening.
7 Discharge. paying off (as a debt).
Comp.
क्षेत्रं an epithet of Benaras.
मर्गः the way to final beatitude.
मुक्तः frankincense.
Apte Hindi
Hindi
मुक्तिः
स्त्री*
- मुच् + क्तिन्
"छुटकारा, निस्तार, उन्मोचन"
मुक्तिः
स्त्री*
- -
"स्वातंत्र्य, उद्धार"
मुक्तिः
स्त्री*
- -
"मोक्ष, आवागमन के चक्र से आत्मा का मोचन"
मुक्तिः
स्त्री*
- -
"छोड़ना, त्याग, परित्याग, टालना"
मुक्तिः
स्त्री*
- -
"फेंकना, गिरा देना, छोड़ देना, मुक्त करना"
मुक्तिः
स्त्री*
- -
"आजाद करना, खोलना"
मुक्तिः
स्त्री*
- -
"ऋण मुक्त करना, ऋण परिशोध करना"
Wordnet
Sanskrit
Synonyms:
मुक्तिः, स्वातन्त्र्यम्, स्वतन्त्रता, मोचनम्, अवशता, मोक्षणम्
noun
मुक्तस्य अवस्था भावः वा।
"अमेरिकादेशे दासवर्गाणां मुक्तेः श्रेयः अब्राहमलिङ्कनमहोदयस्य अस्ति।"
Synonyms:
मुक्तिः
noun
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
"ऋणात् मुक्तेः कृते गृहविक्रयणात् अन्यः कश्चित् उपायः दृश्यते।"
Synonyms:
मुक्तिः, मोक्षः, कैवल्यम्, निर्वाणम्, श्रेयः, निःश्रेयसम्, अपवर्गः
noun
मृत्योः कारणात् जायमाना नित्यसुखावाप्तिः।
"जीर्णेन रोगेण पीडितः सः जीवनात् मुक्तिम् इच्छति।"
Synonyms:
आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः
noun
केषाञ्चन वस्तूनां क्षेपणक्रिया।
"अमीषां वस्तूनाम् आक्षेपणम् आवश्यकम्।"
Synonyms:
निष्क्रयः, निष्क्रयणम्, उद्धारः, निरुतारः, मुक्तिः
noun
कञ्चित् बन्धनात् मोचयितुं स्वीकृतं दत्तं वा धनम्।
"अपहरणकर्तृभिः मोहनस्य पितुः एकलक्षरूप्यकाणां निष्क्रयः स्वीकृतः।"
Synonyms:
मुक्तिः, परिहारः, विनिर्मोक्षः
noun
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
"अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।"
Synonyms:
मोचनम्, प्रतिमोचनम्, मुक्तिः
noun
प्रमुञ्चनस्य क्रिया भावो वा।
"ह्यः माधवस्य कारागृहात् मुक्तिः प्राप्तवान्।"
Synonyms:
मोक्षः, मुक्तिः, कैवल्यम्, तथागतिः, अपुनर्भवः, श्रेयः, निःश्रेयसम्, अमृतम्, अपवर्गः, निर्वाणम
noun
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
"सन्तः मोक्षं प्राप्नुवन्ति।"
Tamil
Tamil
முக்தி: : மோக்ஷம், சுதந்திரம், விடுதலை.
शब्दकल्पद्रुमः
Sanskrit
मुक्तिः,
स्त्री,
(मुच् + भावे क्तिन् ।) आत्यन्तिक-दुःखनिवृत्तिः इति नैयायिकाः
नित्यसुखा-वाप्तिः इति वैदान्तिकाः शरीरेन्द्रियाभ्यांआत्मनो मुक्तत्वं मुक्तिः इति भरतः मोक्षः ।तत्पर्य्यायः कैवल्यम् निर्व्वाणम् श्रेयः ४निःश्रेयसम् अमृतम् मोक्षः अपवर्गः ।इत्यमरः
अपुनर्भवः स्थिरः १०अक्षरम् ११ इति जटाधरः
सा पञ्चविधा ।सार्ष्टिः सालोक्यम् सारूप्यम् सायुज्यम् ४निर्व्वाणम् यथा, --सार्ष्टिसारूप्यसालोक्यसामीप्यैकत्वमप्युत ।दीयमानं गृह्णन्ति विना मत्सेवनं जनाः
”इति श्रीभागवतम्
“मुक्तिस्तु द्विविधा साध्वि ! श्रुत्युक्ता सर्व्वसम्मता ।निर्व्वाणपददात्री हरिभक्तिप्रदा नृणाम्
हरिभक्तिस्वरूपाञ्च मुक्तिं वाञ्छन्ति वैष्णवाः ।अन्ये निर्व्वाणरूपाञ्च सुक्तिमिच्छन्ति साधवः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २२ अध्यायः
*
मुक्तिकरयोगो यथा, --“वक्ष्ये साङ्गमहायोगं भुक्तिमुक्तिकरं परम् ।सर्व्वपापप्रशमनं भक्त्यानुपठितं शृणु
ममेति मूलं दुःखस्य ममेति निर्व्वृतेः ।दत्तात्रेयो ह्यलर्काय इममाह महामतिः
अहमित्यङ्कुरोत्पन्नौ ममेति स्कन्धवान् महान् ।गृहक्षेत्रोपशाखश्च पुत्त्रदारादिपल्लवः
धनधान्यमहापत्रोऽनेककालैर्हि वर्द्धितः ।पुण्यापुण्यसपुष्पश्च सुखदुःखमहाफलः ।विधिवत् सुखशान्त्यर्थं जातोऽज्ञानमहातरुः
संसाराध्वपरिश्रान्ता येऽत्र च्छायां समा-श्रिताः ।भ्रान्तिज्ञानसुखासीनास्तेषामात्यन्तिकं कुतः
यैस्तु सत्सङ्गपाषाणनिशितेन महातरुः ।छिन्नो विद्याकुठारेण ते गता लयमीश्वरे
प्राप्य ब्रह्मरसं पीतं नीरजस्कमकण्टकम् ।प्राप्नुवन्ति पराः प्राज्ञा ज्ञाननिर्वृत्तिमेव
मूर्त्तेन्द्रियमयं मूलं नत्वं राजा नचाप्यहम् ।न तन्मात्रादिकं वाचा नैवान्तःकरणन्तथा
कं वा पश्यसि राजेन्द्र ! प्रधानमिदमावयोः ।मृतः परेऽह्नि क्षेत्रज्ञः संजातोऽयं गुणात्मकः
ममको दुःखमाप्त्यर्थं जातो मत्स्योऽम्भसा यथा ।एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनो नृप !
ज्ञानपूर्व्वाभियोगोऽतिज्ञानेन सह योगिनः ।सा मुक्तिर्ब्रह्मणा चैक्यमनैक्यं पुत्त्र ! ते गुणैः ।तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति
”इति गारुडे २३० अध्यायः
*
अपि ।“हरिरात्मा सन्देहो यदा तत् समजायत ।तदा मुक्तः संसारी विष्णोरेवात्मतां व्रजेत् ।नान्यथा मुच्यते चात्मा भ्रमन् वै घटियन्त्रवत्
पूर्व्वकर्म्मनिबद्धोऽपि सर्व्वयोनिषु नित्यशः ।कूटस्थः पशुतां याति आत्मज्ञानविवर्जितः
कुर्व्वन्नहं ममेतीदमेवं दुःखाय कल्पते ।मृद्धेतोर्हि यथा कार्य्यं लिप्यते वै न्वनीश्वरः
क्षीराधानादिभिर्यद्वद्भाण्डं तद्वन्महानसे ।चन्द्रकान्तमणिर्यद्वद् गृह्णीते सोपचान् गुणान् ।सुखं दुःखं तथा क्षेमं संसरन् नूनमीश्वरः
स्वप्ने यः पुरुषो नित्यमटते कर्म्मबन्धनात् ।मन्यमानः सुखं दुःखं सोऽप्येव विप्र ! मुच्यते
जगन्मुक्ते सृष्टिः स्यादमुक्ते वर्द्धते सदा ।तस्माज्जगत्क्षयं विद्यात् ज्ञानं नाधिकमेव
यत्र तत्र स्थितो ज्ञानी परमाक्षरवित् सदा ।विषयान्तरसक्तो वा याति देहे मृते हरिम्
तस्य प्रतिबन्धोऽस्ति यद्यनीहोऽपि लीलया ।कुरुते गृह्यते नैव पद्मपत्रमिवाम्भसा
यथा दुर्द्दिनसंघातं मेघवृन्दैर्व्यवस्थितम् ।तदिच्छुर्निर्मलावस्थो ज्ञानी विषयसंज्ञितः
सर्व्वावस्थोऽपि मुच्येत भावयुक्तः परे पदे ।जीवन्मुक्तः मुक्तः स्यान्निद्राविरहितस्तु यः
कर्त्ता हर्त्ता भोक्ता सर्व्वज्ञः सर्व्वगोहरिः ।एकं स्वच्छन्दलीलस्य मुक्तिरित्यभिधीयते
जीवमुक्तिमजानन्तो मूर्च्छिताकारविग्रहाः ।विषमुग्धा इवाभान्ति सूढाश्चैतन्यवर्जिताः
निर्गुणः तु विज्ञयः सुखदुःखमतीतवान् ।जीवनाशो भवेद्यत्र तत् सुखं निष्प्रयोजनम्
मृत्पिण्डदण्डवन्मोक्षस्तन्मोक्षस्तु भवेद्वृथा ।तिष्ठन्ति काष्ठवद्ये संवित्तिपरिवर्जिताः
ते मायोदरे लीना जडान्धवधिरोपमाः ।आकाशवद्भवेदात्मा विदेहो निष्प्रचेतनः
अलं ह्यनेन मोक्षेण चेतनारहितेन ।वरमेव संसारी विषयासक्तचेतनः
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।भुञ्जन्नात्मा उभौ पाशौ संसारे संव्यवस्थितः
ईदृशं हि परं ज्ञानं वेदादीनामशेषतः ।सुखस्य फलं भुङ्क्ते स्वर्गे चेह द्विजोत्तम !
यत्र वासः परे स्थाने सुखदुःखविवर्जितः ।केवलं जीवनाशोऽयं प्रोक्तज्ञानमजानता
चेतनारहितो ज्ञानमाकाशस्थोऽप्यचेतनः ।मृत्पिण्डदण्डलोष्टादिशिलापट्टककुड्यवत्
अथ श्रान्तो नरो यद्वत् सुसुप्तः सुखमश्नुते ।बोध्यमानः सचेतापि सुखाद्बोद्धुं मन्यते
*
केषां मुक्तमिदं मोक्षः सुखमत्यन्तकेवलम् ।तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम
दुःखानामागमो नास्ति यत्र सौख्यं निरन्तरम् ।विद्यते तत् परं दृष्ट्वा योऽप्यानन्दसुखी भवेत्
ब्रह्यज्ञानप्रविन्नाञ्च स्वच्छन्दात्मबलान्विताः ।न तेषां पुनरावृत्तिर्यान्ति विष्णुलयं बुधाः
अस्ति देवो हरिः शान्तः कारणोपायवर्जितः ।तं ज्ञात्वा तु भवेन्मुक्तिर्निर्म्मला काययोगिनः
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्य्यादयः सुराः ।न विभक्तिं शरीरस्य यान्ति मुक्तिर्न विद्यते
तस्मादाराधनीयोऽपि संयमेन्द्रियगोचरः ।विष्णुर्मायापतिर्यो वै यदीच्छेन्मुक्तिमात्मनः
नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात् ।नान्यत्र सर्व्वसंत्यागात् मोक्षं बिन्दति मानवः
तस्माद्धर्म्ममुखो भूत्वा संयम्यात्मानमात्मना ।धर्म्मं कुर्य्याद्विहायैनो धर्म्मात्मा सुखमेधते
धर्म्मादेवाप्यते देहो दाराः पुत्त्रा धनं तथा ।धर्म्मात् स्वर्गश्च मोक्षश्च यदन्यदपि दुर्लभम्
ऋषयो देवगन्धर्व्वाः स्वधर्म्ममनुगामिनः ।स्वर्गे तिष्ठन्ति विप्रर्षे ! ततो यास्यन्ति सद्गतिम्
धर्म्ममर्थञ्च कामञ्च मोक्षञ्च ऋषिसत्तम् ! ।समाप्नोति पुमान्नित्यं नारायणपरायणः
”इति वह्निपुराणम्
(निरुक्तिर्यथा, सांख्यसूत्रम् २० ।“मुक्तिरन्तरायध्वस्तेर्न परः ।”यथाच, अष्टावक्रसंहितायाम् ।“मुक्तिमिच्छसि रे तात ! विषयान् विषवत्त्यज ।क्षमार्ज्जवदयातोषसत्यं पीयूषवद्भज
”)
कृदन्तरूपमाला
Sanskrit
1 {@“मुचॢ मोक्षणे”@} 2 मुचादिः।
‘कल्कने मुञ्चते मुञ्चेः, मोक्षे मुञ्चति मुञ्चते।
प्रमोचने चुरादेर्णौ मोचयत्येष त्वॢदित्।।’ 3 इति देवः।
मोचकः-चिका, मोचकः-चिका, 4 मुमुक्षकः-मोक्षकः-क्षिका, मोमुचकः-चिका
मोक्ता-मोक्त्री, मोचयिता-त्री, मुमुक्षिता-मोक्षिता-त्री, मोमुचिता-त्री
5 मुञ्चन्-न्ती, मोचयन्-न्ती, मुमुक्षन्-मोक्षन्-न्ती
-- 6 मोक्ष्यन्-न्ती-ती, मोचयिष्यन्-न्ती-ती, मुमुक्षिष्यन्-मोक्षिष्यन्-न्ती-ती
-- मुञ्चमानः, मोचयमानः, मुमुक्षमाणः-मोक्षमाणः, मोमुच्यमानः
मोक्ष्यमाणः, मोचयिष्यमाणः, मुमुक्षिष्यमाणः-मोक्षिष्यमाणः, मोमुचिष्यमाणः
विमुक्-विमुचौ-विमुचः
-- -- -- मुक्तम्-मुक्तः-मुक्तवान्, 7 चक्रमुक्तः, 8 स्तोकान्मुक्तः-अल्पान्मुक्तः-कृच्छ्रान्मुक्तः, मोचितः, मुमुक्षितः-मोक्षितः, मोमुचितः-तवान्
मुचः, 9 जलमुक्-पयोमुक्, 10 नखमुचानि 11, 12 मुक्तः-मुक्ता, 13 मोचनः, मोचः, 14 मुमुक्षुः-मोक्षुः, मोमोचः
-- मोक्तव्यम्, मोचयितव्यम्, मुमुक्षितव्यम्-मोक्षितव्यम्, मोमुचितव्यम्
मोचनीयम्, मोचनीयम्, मुमुक्षणीयम्-मोक्षणीयम्, मोमुचनीयम्
15 मोक्यम्-मोच्यम्, मोच्यम्, मुमुक्ष्यम्-मोक्ष्यम्, मोमुच्यम्
ईषन्मोचः-दुर्मोचः-सुमोचः
-- -- -- 16 मुच्यमानः, मोच्यमानः, मुमुक्ष्यमाणः-मोक्ष्यमाणः, मोमुच्यमानः
मोकः-निर्मोकः, मोचः, मुमुक्षः-मोक्षः, मोमुचः
मोक्तुम्, मोचयितुम्, मुमुक्षितुम्-मोक्षितुम्, मोमुचितुम्
मुक्तिः, मोचना, मुमुक्षा-मोक्षा, मोमुचा
मोचनम्, मोचनम्, मुमुक्षणम्-मोक्षणम्, मोमुचनम्
मुक्त्वा, मोचयित्वा, मुमुक्षित्वा-मोक्षित्वा, मोमुचित्वा
विमुच्य, विमोच्य, विमुमुक्ष्य-विमोक्ष्य, विमोमुच्य
मोचम् २, मुक्वा २, मोचम् २, मोचयित्वा २, मुमुक्षम्-मोक्षम् २, मुमुक्षित्वा-मोक्षित्वा २, मोमुचम्
मोमुचित्वा
17 इति इन्प्रत्यये, तस्य कित्त्वेन गुणनिषेधे रूपमेवम्।
मुञ्चतीति नमुचिः।
‘न भ्राण्नपान्नवेदानासत्यानमुचि--’ 18 इत्यादिना नञः प्रकृतिभावे रूपमेवम्।]] मुचिः-नमुचिः, 19 इत्यादिना किरच्प्रत्यये रूपमेवम्।]] मुचिरः, 20 इति ष्ट्रन्प्रत्यये टेरूकारे रूपमेवम्।
मुच्यते तदिति मूत्रम्।
मनोरमायां तु मूत्रधातोरेव प्रकृतरूपे सिद्धेऽत्रैवं साधनं स्वरार्थमित्युक्तम्।]] मूत्रम्।
प्रासङ्गिक्यः
01
=>
(१२७५)
02
=>
(६-तुदादिः-१४३०। सक। अनि। उभ।)
03
=>
(श्लो। ४७)
04
=>
[[१। सन्नन्ते, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, गुणनिषेधे रूपमेवं ज्ञेयम्। कर्मकर्तरि, कर्मणोऽविवक्षितत्वे वा मुचिरयमकर्मको भवति। तदानीम्, ‘मुचो- ऽकर्मकस्य गुणो वा’ (७-४-५७) इति सकारादौ सनि परतः गुणे, ‘अत्र लोपो- ऽभ्यासस्य’ (७-४-५८) इत्यभ्यासस्य लोपे मोक्षकः-क्षिका इत्यादीनि रूपाणि यथायथं सर्वत्र भवन्तीति ज्ञेयम्।]]
05
=>
[[२। शतरि, ‘तुदादिभ्यः--’ (३-१-७७) इति शप्रत्यये ‘शे मुचादीनाम्’ (७-१-५९) इति नुमि मुञ्चन् इति रूपम्। एवमेव शानजन्तेऽपि मुञ्चान इत्यत्र प्रक्रियोह्या।]]
06
=>
[पृष्ठम्१०३४+ ३१]
07
=>
[[१। चक्रान्मुक्त इत्यर्थे ‘अपेतापोढमुक्त--’ (२-१-३८) इति पञ्चमीतत्पुरुषसमासः।]]
08
=>
[[२। अत्रापि पञ्चमीतत्पुरुषसमासे सति, ‘सुपो धातुप्रातिपदिकयोः’ (२-४-७१) इति प्राप्तस्य सुब्लुकोऽपवादतया, ‘पञ्चम्याः स्तोकादिभ्यः’ (६-३-२) इति अलुक्। एवमेव अल्पान्मुक्तः इत्यादिष्वपि ज्ञेयम्।]]
09
=>
[[३। जलं मुञ्चतीत्यर्थे ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। कर्मण्यण् अत्र भवति।]]
10
=>
[[४। नखानि मुञ्चतीत्यर्थे कर्मण्यणोऽपवादतया, ‘कप्रकरणे--मूलविभुजादिभ्य उपसंख्या- नम्’ (वा। ३-२-५) इति कप्रत्यये कित्त्वात् गुणनिषेधे रूपमेवम्। मूलविभु- जादिराकृतिगणः। नखमुचानि = मुष्टेर्बहिर्भूतानीत्यर्थः।]]
11
=>
(धनूंषि)
12
=>
[[५। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्यये रूपमेवम्। मुक्तः = प्रकृतिबन्धादुत्थित इत्यर्थः। मुक्ता इति तु संज्ञायां क्तप्रत्ययान्तात् टापि रूपमिति ज्ञेयम्। मुक्ता = मौक्तिकोत्पत्तिस्थानम्।]]
13
=>
[[६। चलनार्थकत्वादस्य ‘चलनशब्दार्थाद्--’ (३-२-१४८) इति ताच्छीलिके युचि रूपमेवम्। अकर्मकत्वमपि विवक्षातोऽत्रेति ज्ञेयम्।]]
14
=>
[[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्ष्न्।’ भ। का। ३-४१।]]
15
=>
[[७। निष्ठायामनिट्त्वादस्य, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति ण्यति कुत्वे रूप- मेवम्। एवमेव घञन्तेऽपि कुत्वमिति बोध्यम्। आवश्यकार्थे ण्यत्प्रत्यये तु कुत्वं न। ततः मोच्यम् इत्यपि साधुः। “--‘अमोच्यमश्वं यदि मन्यसे…।’ (रघुवंशे ३-६५) इत्यत्रावश्यके ण्यः। ‘ण्य आवश्यके’ (७-३-६५) इति कुत्व- निषेधः।” इति मा। धा। वृत्तिवचनमिहानुसन्धेयम्।]]
16
=>
[पृष्ठम्१०३५+ २९]
17
=>
[[१। ‘इगुपधात् कित्’ [द। उ। १-४८]
18
=>
(६-३-७५)
19
=>
[[२। मुच्यन्तेऽनेन दुःखेभ्य इति मुचिरः = मोचकः। ‘इषिमदि--’ [द। उ। ८। २६]
20
=>
[[३। ‘षिविमुच्योष्टेरू च’ [द। उ। ८। ८३]