| YouTube Channel

मुकूलकः (mukUlakaH)

 
शब्दकल्पद्रुमः
Sanskrit
मुकूलकः,
पुं,
(मुच् + बाहुलकादूलच् पृषोदरा-दित्वात् कुत्वम् ततः संज्ञायां कन् ।) दन्ति-वृक्षः इत्यमरटीकायां रामाश्रमः
(तथास्यपर्य्यायः
“चित्रा दन्ती निकुम्भः स्यादुपचित्रा मुकूलकः ।दाक्षायणी विशल्या तथोडुम्बरपर्ण्यपि
”इति वैद्यकरत्नमालायाम्
“दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः ।द्रवन्ती नामतश्चित्रान्यग्रोधा मूषिकाह्वया
”इति चरके कल्पस्थाने द्वादशेऽध्याये
)