| YouTube Channel

मुकुष्टकः (mukuSTakaH)

 
शब्दकल्पद्रुमः
Sanskrit
मुकुष्टकः,
पुं,
(मुकुं स्तकति प्रतिहन्ति स्तक +अच् पृषोदरादित्वात् साधुः ।) वनमुद्गः ।मुगानी इति भाषा तत्पर्य्यायः मयष्टकः ।इत्यमरः १७
मुकुष्ठः मयष्ठः इतिश्रीधरः
मपष्टकः इत्यन्ये इति भरतः
मुद्गष्टकः मकुष्टकः मयुष्टकः इतिटीकान्तरम्
(तथास्य विषयः
“विदलान्नानि वक्ष्यामि शृणु पुत्त्र ! यथा-क्रमम् ।यवगोधूमचणका माषामुद्गाढकी तथा
मुकुष्टकाः कुलत्थाश्च मसूरास्त्रिपुटास्तथा ।निष्पावकाः कलायाद्या विदलान्नानि कीर्त्तयेत्
इति हारीते प्रथमे स्थाने दशमेऽध्याये
मुद्गान् मसूरांश्चणकान् कुलत्थान् समुकुष्ट-कान् ।आहारकाले यूषार्थे ज्वरिताय प्रदापयेत्
”इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे
)