| YouTube Channel

मीव (mIva)

 
Wilson
English
मीव r. 1st cl. (मीवति) To be large or corpulent.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मीवे
मूलधातुः:
मीव
धात्वर्थः:
स्थौल्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मीवति
शब्दकल्पद्रुमः
Sanskrit
मीव, पीवे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) मीवति पीवः स्थूली-भावः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मीव स्थूलीभवने
भ्वा०
पर०
अक० सेट् भीवति अमीवीत्
कृदन्तरूपमाला
Sanskrit
1 {@“मीव स्थौल्ये”@} 2 मीवकः-विका, मीवकः-विका, मिमीविषकः-षिका, मेमीवकः-विका
मीविता-त्री, मीवयिता-त्री, मिमीविषिता-त्री, मेमीविता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकजीवतिवत् 3 ज्ञेयानि।
4 मीवितः।
5 मीवरः।
प्रासङ्गिक्यः
01
=>
(१२७२)
02
=>
(१-भ्वादिः-५६४। सक। सेट्। पर।)
03
=>
(६०६)
04
=>
[[B। ‘अपीवितां नाप्यतिमीवितां श्रितं तनुं सुतीवोरुमनीवमध्यमाम्।।’ धा। का। १। ७२।]]
05
=>
[[२। बाहुलकादौणादिकेऽरप्रत्यये रूपमेवम्। ‘मीवरः = मानी।’ इति मा। धा। वृत्तिः।]]