| YouTube Channel

मील (mIla)

 
Wilson
English
मील r. 1st cl. (मीलति) To wink or twinkle, to close or contract the
eye-lids: with उत् prefixed, to awake, (and figuratively) to expand, to bud,
to blossom.
Shabdartha Kaustubha
Kannada
मील - निमेषणे (भ्वा० पर० सक० से०) मीलति मीलतु मील्यात्
कन्नडार्थः - > ಮುಚ್ಚು /ಮುಚ್ಚಿಕೋ
प्रयोगाः - > "मीलत्यसौ कुमुदिनी सह तारकाभिः"
उल्लेखाः - > याद० १९-७४
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मील्
मूलधातुः:
मील
धात्वर्थः:
निमेषणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मीलति
धातुप्रदीपः
Sanskrit
मीलँ मील
मानकरूपान्तरम् - स्मीलँ
स्मील
मानकरूपान्तरम् - क्ष्मीलँ
क्ष्मील निमेषणे
- मीलति अमिलीलत् अमीमिलत् स्मीलति क्ष्मीलति श्मील इत्येके श्मीलति ।। 518-520 ।।
शब्दकल्पद्रुमः
Sanskrit
मील, निमेषे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) अमिमीलत् अमी-मिलत् मीलति चक्षुः पक्ष्मभिरावृतं स्यादि-त्यर्थः इति दुर्गादासः
मीलं,
क्ली,
(मीलतीति मील + कः ।) वनम् ।इति केचित्
वाचस्पत्यम्
Sanskrit
मील निमेषे
भ्वा०
पर०
अक० सेट् मीलति अमीलीत् ।ऋदित् चङि वा ह्रस्वः
क्षीरतरङ्गिणी
Sanskrit
मीलँ मील
मानकरूपान्तरम् - श्मीलँ
श्मील निमेषणे
- (अर्थविवरणम्) निमेषणं सङ्कोचः
मीलति प्रमीला तन्द्री मीलनम् भ्राजबाष [ भाष ] दीप (743) इत्युपधाह्रस्वो वा-अमिमीलत् अमीमिलत् लौकिकात् मिलेः-मिलति, मेलनम् श्मील स्थाने क्ष्मीलेति चान्द्राः (चा0 धा0 1162) 509, 510
धातुवृत्तिः
Sanskrit
मीलँ मील
मानकरूपान्तरम् - शीलँ
शील
मानकरूपान्तरम् - क्ष्मीलँ
क्ष्मील (अर्थः) निमेषणे
(अर्थविवरणम्) निमेषणं सङ्कोचः
द्वितीयस्तालव्यादि तृतीयो दन्त्यादिः ( मीलति मिमील मीलिता ) इत्यादि ( मिमीलिषति मेमील्यते मेमीलीति मेमील्ति मीलयति असीमिलत् अमीमीलत् ) "भ्राजभास'' इत्यादिना णौ चङ्युपधाया ह्रस्वविकल्पः श्मीलति क्ष्मीलतीत्यादि मिल श्लेषणइति हस्वोपधस्तुदौ 514
कृदन्तरूपमाला
Sanskrit
1 {@“मील निमेषणे”@} 2 निमेषणम् = सङ्कोचः।
मीलकः-लिका मीलकः-लिका, मिमीलिषकः-षिका, मेमीलकः-लिका
मीलिता-त्री, मीलयिता-त्री, मिमीलिषिता-त्री, मेमीलिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककीलतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२७१)
02
=>
(१-भ्वादिः-५१७। अक। सेट्। पर।)
03
=>
(१९५)