| YouTube Channel

मीनः (mInaH)

 
Apte
English
मीनः [mīnḥ], [मी-नक्]
A fish
सुप्तमीन इव ह्रदः
R.*
1.73
मीनो नु हन्त कतमां गतिमभ्युपैतु
Bv.*
1.17.
The twelfth sign of the zodiac (Pisces).
The first incarnation of Viṣṇu
see मत्स्यावतार. -ना A stick.
Comp.
-अक्षी
N.
of a deity (worshipped in Madurā). -अण्डम् roe, fish-spawn. (-ण्डा) moist sugar. -आघातिन्, -घातिन्m.
a fisherman.
a crane. -आलयः the sea. -केतनः, -ध्वजः the god of love. -गन्धा an epithet of Satyavatī.-गन्धिका a pond, pool of water (v. l. गोधिका). -घातिन्m.
a crane.
a fisherman. -रङ्कः, -रङ्गः a kingfisher.
Apte 1890
English
मीनः [मी-नक्] 1 A fish
सुप्तमीन इव ह्रदः R. 1. 73
मीनो नु हंत कतमां गतिमभ्युपैतु Bv. 1. 17.
2 The twelfth sign of the zodiac (Pisces).
3 The first incarnation of Viṣṇu
see मत्स्यावतार.
Comp.
अंडं roe, fish-spawn (
डा) moist sugar.
घातिन्, घातिन् m. {1} a fisherman. {2} a crane.
आलयः the sea.
केतनः the god of love.
गंधः an epithet of Satyavatī.
गंधिका a pond, pool of water.
रंकः,
रंगः a kingfisher.
Apte Hindi
Hindi
मीनः
पुं*
- -
मछली
मीनः
पुं*
- -
बारहवीं अर्थात् मीन राशि
मीनः
पुं*
- -
विष्णु का पहला अवतार
Wordnet
Sanskrit
Synonyms:
मत्स्यः, पृथुरोमा, मीनः, वैसारिणः, विसारः, शकली, शन्धली, झषः, आत्माशी, संवरः, मूकः, जलेशयः, कण्टकी, शक्ली, मच्छः, अनिमिषः, शुङ्गी, झसः
noun
जलजन्तुविशेषः, यः शकलकण्टकादियुक्तः।
"मत्स्याः अण्डजाः सन्ति।"
Synonyms:
मीनः, मीनराशिः
noun
मेषादिद्वादशराश्यान्तर्गतः अन्तिमराशिः पूर्वभाद्रपदाशेषपादोत्तरभाद्रपदारेवतीसमुदायेन भवति।
"तस्य राशिः मीनः।"
Tamil
Tamil
மீன: : மீன், மீன ராசி.
शब्दकल्पद्रुमः
Sanskrit
मीनः,
पुं,
(मीयते इति मीञ् हिंसायाम् “फेन-मीनौ ।” उणा० इति नक् निपातितश्च ।)मत्स्यः इत्यमरः १० १७
(यथा, भागवते ।“दुर्भगो वत् लोकोऽयं यदवो नितरामपि ।ये संवसन्तो विदुर्हरिं मीन इवोडुपम्
”)मेषादिद्वादशराश्यन्तर्गतान्तिमराशिः तत्-पर्य्यायः अन्त्यभम् पूर्व्वभाद्रपदा-शेषपादोत्तरभाद्रपदारेवतीसमुदायेन भवति ।अस्याधिष्ठातृदेवता स्त्रीमत्स्यद्बयं कीट-संज्ञः जलजः सौम्यः अङ्गना युग्मः ।समः द्व्यात्मकः भक्ष्यः उत्तरदिङ्नाथः ।गुरुक्षेत्रम् दिनात्मकश्च इति ज्योतिस्तत्त्वम्
अपि शीर्षपृष्ठोदयः चरणरहितः ।कफप्रकृतिः जलचारी निःशब्दः पिङ्गल-वर्णः स्निग्धः अत्यन्तस्त्रीसङ्गः बहु-सन्तानः ब्राह्मणवर्णः श्लथाङ्गश्च तत्रजातः अतिक्रोधनः शीघ्रगतिः अशुचिः ।कर्म्मभोगी प्रचुरविवाहश्च भवति इतिबृहज्जातकादयः
अपि ।“मीनलग्ने समुत्पन्नो रत्नकाञ्चनपूरितः ।अल्परोमा महाप्राज्ञो दीर्घकालपरीक्षकः
”इति कोष्ठीप्रदीपः
*
रात्री तल्लग्ननिरूपणं यथा सूर्पाकारतारा-चतुष्टयात्मकपूर्व्वाषाढानक्षत्रे मस्तकोपरि दृष्टेसति मीनलग्नस्य ४९ ऊनपञ्चाशत्पला-धिकैकदण्डो भवति प्रकारान्तरे सूर्पाकृति-ताराचतुष्टयात्मकोत्तराषाढानक्षत्रे मस्तको-परि उदिते सति मीनलग्नस्य ३६ षट्-त्रिंशत्पलाधिकदण्डद्वयं भवति यथा, --“सूर्पमूर्त्तिनि शिरोगतेचतुस्तारके करिकरोरुवारिभे ।अन्त्यभादमृतवाणि ! निर्गताःखेचराम्बरशशाङ्कलिप्तिकाः
दं ४९ ।शीर्षभाजिभचतुष्टयाङ्कितेविश्वभे तरुणि सूर्पकाकृतौ ।भ्रूतिरस्कृतमनोजकार्मुके !यान्ति कालतिथिलिप्तिका झषात्
”दं ३६
इति कालिदासकृतरात्रिलग्ननिरूपणम्
*
भगवद्दशावतारान्तर्गतप्रथमावतारः यथा, “शेते चित्तशयने मम मीन कूर्म्म-कोलोऽभवन् नृहरिवामनजामदग्न्यः ।योऽभूद्बभूव भरताग्रजकृष्णबुद्धःकल्की सताञ्च भविता प्रहरिष्यतेऽरीन्
”इति मुग्धबोधव्याकरणम्
अस्य विवरणं मत्स्यशब्दे द्रष्टव्यम्
*
विशेषस्त्वत्र कथ्यते ।“प्रकृतिर्विष्णुरूपा पुंरूपश्च महेश्वरः ।एवं प्रकृतिभेदेन भेदास्तु प्रकृतेर्दश
कृष्णरूपा कालिका स्याद्रामरूपा तारिणी ।वगला कूर्म्ममूर्त्तिः स्यान्मीनो धूमावती भवेत्
छिन्नमस्ता नृसिंहः स्याद्वराहश्चैव भैरवी ।सुन्दरी जामदग्न्यः स्याद्बामनो भुवनेश्वरी
कमला बौद्धरूपा स्यात् मातङ्गी कल्किरूपिणी ।स्वयं भगवती काली कृष्णस्तु भगवान् स्वयम्
स्वयञ्च भगवान् कृष्णः कालीरूपो भवेद्व्रजे ।”दुर्गा स्यात् कल्किरूपिणीति पाठान्तरम् ।इति मुण्डमालातन्त्रम्