| YouTube Channel

मीञ् (mIJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मी
मूलधातुः:
मीञ्
धात्वर्थः:
हिंसायाम्
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
मीनाति-मीनीते
अनुबन्धादिविशेषः:
ईकारान्तः, ञित्
धातुप्रदीपः
Sanskrit
मीञ् हिंसायाम्
- मीनाति मीनीते प्रमीणाति प्रमीणीतः ममौ मिम्ये मिम्यतुः मिम्याते माता मास्यति मास्यते मीयात् मासीष्ट अमासीत् अमास्त मित्सति मित्सते मेमीयते मापयति अमीमपत् मीत्वा मीतः प्रमाय सुमयः मयः 4
क्षीरतरङ्गिणी
Sanskrit
मीञ् हिंसायाम्
- मीनाति, मीनीते हिनु मीना (8415) इति णत्वम्-प्रमीणाति सनि मीमा (7454) इतीस्-मित्सति मीनातिमिनोतिदीङां ल्यपि (6450) इत्यात्त्वम्-प्रमापयति, प्रमाय मिमीलियां खल्चोः प्रतिषेधः (तु0 3150 वा0)-ईषन्मयः प्रमयः मीतः-उणादौ मीनातेरूरः (द0 उ0 828)-मयूरः 4
धातुवृत्तिः
Sanskrit
मीञ् (अर्थः) हिंसायाम्
( मीनाति मीनीतः मीनासि मीनामि मीनीवः मीनीते मीनाते मीनीषे मीने मीनीवहे ममौ मिम्यतुः ममिथ ममाथ मिम्यथुः मिम्य ममो मिम्यिव) "मीनातिमिनोति''इत्येज्विषये आत्वं ल्यपि अन्यत्र "एरनेकाच''इति यण् (मिम्ये मिम्यिषे मिम्ये मिम्यिवहे माता मास्यति मास्यते मीनातु मीनीतम् अमीनात् अमीनीत मीनीयात् मीनीत ) आशिषि ( मीयात् ) यासुटः कित्त्वादनेज्विषयत्वान्नात्वम् ( मासीष्ट अमासीत् अमासिष्टाम् अमास्त अमासाताम्) आत्वे "यमरमनमाताम्'' इति सगिटौ सनि ( मित्सति मित्सते ) "सनिमीमा''' इत्यच इस् "सः स्यार्द्धधातुके'' इति तत्वम् "अत्र लोप'' इत्यभ्यासलोपः ( मेमीयते मेमेति ) "मीनाति'' इति स्तिपा निर्देशान्नात्वम् (मापयति) आत्वे पुक् ( अमीमपत् प्रमीणाति ) "हिनुमीना'' इत्युपसर्गस्थान्निमित्तात्पस्यमीनाशब्दनकारस्य णत्वम् (प्रमीणीतः प्रमीणन्ति) इत्यादौ परनिमित्तकस्येत्वस्याल्लोपस्य पूर्वविधौ स्थानिवत्त्वादेकदेशविकृतस्यानन्यत्वाद्वा णत्वम् ( मीत्वा मीतः मीतवान् प्रमाय ) "मीनाति'' इति ल्यप्यात्वम् ( ईषत्प्रमयः मयः ) ( निमिमीलियां खलचोः प्रतिषेधः ] इत्यात्वनिषेधः 4