| YouTube Channel

मीङ् (mIG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मी
मूलधातुः:
मीङ्
धात्वर्थः:
हिंसायाम् (प्राणवियोगः)
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
मीयते
अनुबन्धादिविशेषः:
ईकारान्तः, ओदित्
धातुप्रदीपः
Sanskrit
मीङ् हिंसायाम्
- मीयते मिम्ये मेता मीनः मीनवान् मीत्वा मेतुम् मित्सते (9) निमाता प्रमातेति मिञ्मीञो रूपम् 31
क्षीरतरङ्गिणी
Sanskrit
मीङ् हिंसायाम्
- मीयते मीनः, मीनवान् माता सनिमीमा (7454) इतीस्-मित्सते क्र्य्यादौ मीञ् (94)-मीनाति 29
धातुवृत्तिः
Sanskrit
मीङ् (अर्थः) हिंसायाम्
अत्र हिंसाशब्देन हिंसाफलं प्राणविश्लेषोऽभिधीयते ( मीयते ) इत्यादि धीङ्वत् ( मिमीषत ) इत्यत्र "सनिमीमा'' इति नेस्भावः तत्र 'मीनातिमिनोत्योर्द्वयोर्ग्रहणम्' इति हि वृत्तिकारः काश्यपस्वामिवर्धमानास्तु लाक्षणिकमीरूपस्य मिनोतेरग्रहणशङ्कापनोदनपरावृत्तिः, त्वस्याग्रहणपरेति मित्सते इतीच्छन्ति एषाम् "इको झल्'' इत्यत्र "मीनातिमिनोत्योः' इति भाष्यमप्युपलक्षणव्याख्येयम् मीनातीति क्र्यादौ डुमिङिति ह्रस्वान्तस्स्वादौ मी गताविति चुरादौ 29
कृदन्तरूपमाला
Sanskrit
1 {@“मीङ् हिंसायाम्”@} 2 ‘मीञो मीनाति मीनीते, हिंसायां मीयते ङितः।।’ 3 4 मित्सकः-त्सिका, मेमीयकः-यिका
मेता-त्री, माययिता-त्री, मिमीषिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्षयतिवत् 5 ज्ञेयानि।
शतरि मीयन्-न्ती-ती इति रूपमिति विशेषः।
6
प्रासङ्गिक्यः
01
=>
(१२६८)
02
=>
(४-दिवादिः-११३७। सक। अनि। आत्म।)
03
=>
(श्लो। १६)
04
=>
[इति देवः। ‘हिंसाऽत्र मृतिः।’ इति धा। का। व्याख्यायाम् (२। ५८)। मायकः-यिका, मायकः-यिका, मिमीषकः-षिका, [[३। ‘सनि मीमा--’ (७-४-५४) इत्यत्र मीनातिमिनोत्योरुभयोरपि ‘मी’ इत्यनेन ग्रहणम्-इति वृत्तिकारः। तेन नास्य ‘मी’ इत्यनेन ग्रहणमिति ज्ञायते। काश्यप- क्षीरस्वामि-वर्धमानप्रभृतयस्तु धातोरस्यापि तत्र ग्रहणमिति कृत्वा, इस्भावे, अभ्यासलोपादिके, सकारस्य तकारे कृते ‘मित्सते’ इति सन्नन्ते रूपं प्रदर्शय- न्ति। “लाक्षणिकमीरूपस्य मिनोतेः अग्रहणशङ्कापनोदनपरा वृत्तिः
\n\n त्वस्याग्र- हणपरा।” इति तेषामुपपादनं माधवधातुवृत्तिप्रतिपादितमिहानुसन्धेयम्। वस्तुतस्तु ‘इको झल्’ (१-२-९) इत्यत्र, ‘मीनातिमिनोत्योः--’ इति भाष्यो- क्त्या, ‘सनि मीमा--’ (७-४-५४) इत्यत्र मीनातिमिनोत्योर्द्वयोरेव ग्रहणं न्याय्यम्
\n\n अन्यथा निरुक्तभाष्यस्योपलक्षणत्वापत्तेः। अस्य धातोरपि ग्रहणे उपलक्षकत्व- कल्पनायां प्रमाणाभावाच्चेत्यलम्। अन्यत्र विस्तरः।]]
05
=>
(३०२)
06
=>
[पृष्ठम्१०३१+ २८]
1 {@“मीङ् हिंसायाम्”@} 2 ‘मीञो मीनाति मीनीते, हिंसायां मीयते ङितः।।’ 3 इति देवः।
4 मायकः-यिका, 5 मापकः-पिका, 6 मित्सकः-त्सिका, 7 मेमीयकः-यिका
माता-मात्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि सौवादिकमिनोतिवत् 8 ज्ञेयानि।
9 मीनन्- प्रमीणन्-ती, प्रमीणानः, इति शतरि शानचि रूपम्।
मीतम्-मीतः- मीतवान्, मीत्वा, 10 प्रमाय, 11 ईषत्प्रमयः-दुष्प्रमयः-सुमयः, मयः- 12 प्रमयः, इत्यादीन्यस्य प्रातिस्विकरूपाणीति ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२६९)
02
=>
(९-क्र्यादिः-१४७६। सक। अनि। उभ।)
03
=>
(श्लो। १६)
04
=>
[[१। ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इति एज्विषये आकारः। युगा- गमः। एवमेव णमुल्प्रभृतिष्वपि ज्ञेयम्।]]
05
=>
[[२। ण्यन्तेऽप्येज्विषयत्वेनाकारे, आदन्तलक्षणे पुगागमे रूपमेवं सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘सनि मीमा--’ (७-४-५४) इत्यनेन इस्, अभ्यासलोपतकारादिकं यथयथं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[४। यङ एज्विषयत्वाभावेन आकारो न। अभ्यासे गुणः। एवमेव यङन्ते सर्वत्र ज्ञेयम्।]]
08
=>
(१२५३)
09
=>
[[५। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। प्रत्ययस्य शित्त्वेन ङिद्वद्भावादङ्गस्य गुणो न। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। प्रमीणन् इत्यत्र ‘हिनुमीना’ (८-४-१५) इति णत्वम्। “…परनिमित्त- कस्य आल्लोपस्य (च) पूर्वविधौ स्थानिवत्त्वाद् ‘एकदेशविकृतस्यानन्यत्वात्’ (परि। ३७) वा णत्वम्।” इति माधवोक्तमिहानुसन्धेयम्। एवमेव प्रमीणानः इत्यत्रापि ज्ञेयम्।]]
10
=>
[[६। ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यनेन ल्यप्यप्याकारः।]]
11
=>
[[७। ‘निमिमीलियां खलचोरात्वं न’ (वा। ६-१-५१) इति खल्प्रत्यये, अच्प्रत्यये चाकारनिषेधः। तेनैवं रूपम्। अत्र वार्तिके ‘अच्’ इत्यनेन पचाद्यचः (३-१-१३४), एरचः (३-३-५७) ग्रहणमिति ज्ञेयम्। दुष्प्रमयः = रिपुः।]]
12
=>
[[आ। ‘… मांसश्रियां प्रमयकृत् सितपीतचेलः।’ धा। का। ३। ५।]]