| YouTube Channel

मिह (miha)

 
Wilson
English
मिह(औ)मिहौ r. 1st cl. (मेहति) To sprinkle, to shed.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मिह्
मूलधातुः:
मिह
धात्वर्थः:
सेचने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
मेहति
धातुप्रदीपः
Sanskrit
मिहँ मिह सेचने
- मेहति मिमेह मेढा अमिक्षत् मेढ्रम् मेहनम् मेढुम् ।। 1000 ।।
शब्दकल्पद्रुमः
Sanskrit
मिह सेचने इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-अनिट् ।) अमिक्षत इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
मिह सेचने
भ्वा०
पर०
सक०
अनिट् मेहति अमिक्षत्
क्षीरतरङ्गिणी
Sanskrit
मिहँ मिह सेचने
- मेहति मेहनम् क्वसि मीढ्वान् (द्र0 6112 दाम्नी (32182) इति ष्ट्रन् मेढ्रम् न्यङ् क्वादौ (गण0 7353) मेघः 963
धातुवृत्तिः
Sanskrit
मिहँ मिह (अर्थः) सेचने
( मेहति मिमेह मिमेहिथ मिमिहिव )क्रादिनियमादिट् ( मेढा ) ढत्वघत्वष्टुत्वढलोपगुणाः ( मेक्ष्यति ) षत्वकत्वे, ( मेहतु अमेहत् मेहेत् मिह्यात् अमिक्षत् ) शलइगुपधात्'' इति क्सः ( मिमिक्षति ) "हलन्ताच्च'' इति सनः कित्त्वान्न गुणः ( मेमिह्यते मेमेढि मेमीढः )ढलोपौ, दीर्घः ( मेहयति अमीमिहत् मेढ्रम् ) "दाम्नी'' इत्यादिना ष्ट्रन् (मेघः) अचि, संज्ञायां मेघेति न्यङ्क्वादिषु पाठात् कुत्वं, ( मीढ्वान् ) साह्वान्मिढ्वांश्चेति क्वसावद्वित्वानिट्त्वोपधादीर्घत्वढत्वानि निपात्यन्ते ( मिहिरः ) इषिमिहीत्यादिना किरज् स्कन्दादय एतदन्ता अनुदात्ता उदात्तेतः 972
कृदन्तरूपमाला
Sanskrit
1 {@“मिह सेचने”@} 2 मेहकः-हिका, मेहकः-हिका, मिमिक्षकः-क्षिका, मेमिहकः-हिका
मेढा- 3 मेढ्री, मेहयिता-त्री, मिमिक्षिता-त्री, मेमिहिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना आदादिकदेग्धिवत् 4 ज्ञेयानि।
5 मेघः, 6 मेढ्रम्, 7 मीढ्वान्, 8 मेहः, 9 मिहिरः इमानि रूपाणि अस्य धातोः विशेषेण संभवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२६६)
02
=>
(१-भ्वादिः-९९२। सक। अनि। पर।)
03
=>
[पृष्ठम्१०२९+ २८]
04
=>
(८४२)
05
=>
[[१। धातोः इगुपधत्वेऽपि पचादिषु (३-१-१३४) पाठात् अच्प्रत्यये, गुणे, ‘न्यङ्क्वादीनां च’ (७-३-५३) इत्यत्र गणे पाठात् हकारस्य कुत्वेन घकारे मेघ इति सिद्ध्यति। मेहति = वर्षति इति मेघः।]]
06
=>
[[२। ‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (३-२-१८२) इति करणे ष्ट्रन्प्रत्यये गुणे, ‘हो ढः’ (८-२-३१) इति धातुहकारस्य ढत्वे, धत्वष्टुत्वढलोपेषु प्रवृत्तेषु ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि। १२१) इति न्यायेन दीर्घे रूपमेवम् मिह्यतेऽनेनेति मेढ्रम्।]]
07
=>
[[३। धातोरस्मात् कर्तरि लिटः क्वसौ वेदे भाषायां चाविशेषेण ‘दाश्वान् साह्वान् मीढ्वां- श्च’ (६-१-१२) इति निपातनात्, द्वित्वाभावः, अनिट्त्वम्, ढत्वम्, उपधादीर्घ- श्चेति ज्ञेयम्। ‘मीढ्वस्तोकाय तनयाय मृडय--’ इति वैदिकः प्रयोगः।]]
08
=>
[[४। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि गुणे रूपमेवम्। मेहः = मधुमेहः, रोगविशेषः।]]
09
=>
[[५। मेहति, मेहयति वाऽयमिति मिहिरः = सूर्यः। ‘इषिमदिमुदिखिदिच्छिदिभिदि- मन्दिचन्दितिमिमिहि--’ (द। उ। ८-२६) इत्यादिना किरच्प्रत्यये रूपमेवम्।]]
Burnouf
French
मिह मिह
m.
Vd. pluie.
मिहिका
f.
gelée, gelée blanche
gr.
ὀμίχλη.
मिहिर
m.
(sfx. इर) nuage
vent
Soleil
Lune.
Np.
मिहिराण
m.
Śiva.