| YouTube Channel

मिष्टपाकः (miSTapAkaH)

 
शब्दकल्पद्रुमः
Sanskrit
मिष्टपाकः,
पुं,
(मिष्टेन पाको यस्य ।) शर्क्करा-रसपक्वफलादिः मोरव्वा इति पारस्यभाषा
तदेकप्रकारो यथा अपक्वाम्रं द्बिखण्डं कृत्वातद्गात्रे शलाकया छिद्रजालकरणान्तरं चूर्ण-मिश्रितजले दण्डचतुष्टयं स्थापयित्वा जलेनधौतं कुर्य्यात् ततो जलेन सिद्धं कृत्वा जल-त्यागपूर्व्वकमेकतारबद्धशर्क्करारसे मग्नकरणा-नन्तरं तापं दद्यात् रसे घनीभूते अर्द्धदण्डंयावत् तापेन निष्पन्नो भविष्यति इति पाक-राजेश्वरः