| YouTube Channel

मिमृगयिषिता-त्री (mimRgayiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मृग अन्वेषणे”@} 2 अदन्तः, कथादिः, आगर्वीयश्च।
3 ‘मृग्यति इति कण्ड्वादिपाठात्।’ इति मैत्रेयः--इति धातुवृत्तौ प्रति- पादितम्।
दिवाद्यन्ते तु “-- ‘दिवादयस्त्वपरिसमाप्ताः’ इत्याहुः।
तेन क्षीयते, मृग्यते इत्यादिसिद्धिरिति।” इत्यप्युक्तम्।
कण्ड्वादिष्वपि मृगधातुः पठयते।
“दिवादिस्तु भ्वादिवदाकृतिगणः।
तेन क्षीयते मृग्यतीत्यादिसिद्धिरित्याहुः।” इति दिवाद्यन्ते सिद्धान्तकौमुदीवाक्यात् परस्मैपदमेव दिवादिपाठेऽप्येतस्येति ज्ञायते।]] ‘अन्वेषणेऽर्थे मृगयेत णौ यो मार्गेर्भवेन्मार्गति मार्गयेच्च।।’ 4 इति देवः।
मृगकः-गिका, मिमृगयिषकः-षिका
मृगयिता-त्री, मिमृगयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककृपयतिवत् 5 ज्ञेयानि।
अस्या- 6 गर्वीयत्वेन ‘आगर्वादात्मनेपदिनः’ 7 इत्यात्मनेपदमेवेति विशेषः।
8 मृगया।
प्रासङ्गिक्यः
01
=>
(१३००)
02
=>
(१०-चुरादिः-१९००। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(श्लो। ४४)
05
=>
(२५१)
06
=>
[पृष्ठम्१०४६+ ३२]
07
=>
(ग। सू। चुरादिः)
08
=>
[[१। ‘परिचर्यापरिसर्यामृगयाऽटाट्यानामुपसंख्यानम्’ (वा। ३-३-१०१) इति स्त्रियां भावादौ शप्रत्यये, अतो लोपे, णेर्गुणे रूपम्। मृगया = आखेटकः। ‘मृगि- कम्प्योः शविधिः’ इति वचनेन शप्रत्ययोऽत्रेति क्षीरस्वामी। नैतादृशं वचनं भाष्यादिषु दृश्यते। व्याकरणान्तरीयं वाक्यमिति क्षी-टीका।]]