| YouTube Channel

मिमिलिषिता-मिमेलिषिता- (mimiliSitA-mimeliSitA-)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मिल संगमे”@} 2 ‘श्लेषे मिलेत्, संगमे तु मिलते मिलतीति च।’ 3 इति देवः।
मेलकः-लिका, मेलकः-लिका, मिमिलिषकः-मिमेलिषकः-षिका, मेमि- लकः-लिका
मेलिता-त्री, मेलयिता-त्री, मिमिलिषिता-मिमेलिषिता- त्री, मेमिलिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 4 ज्ञेयानि।
“-- ‘मिल संश्लेषणे’ इति पठितस्येह पुनः पाठः-- कर्त्रभिप्राये तङर्थः।
इति आत्रेयः।” इति मा।
धा।
वृत्तिः।
क्षीर- स्वामी त्वमुं धातुं पठति।
अस्य धातोरुभयपदित्वात् शानचि -- 5 मिलमानः, 6 मिलिष्यमाणः, मिमिलिषमाणः, मिमेलिषमाणः, मिमिलिषिष्य- माणः, इत्यादीनि तत्तत्प्रत्यये रूपाण्यूह्यानि।
7 मेलनम्।
8 मेला-कुम्भमेला।
9
प्रासङ्गिक्यः
01
=>
(१२६०)
02
=>
(६-तुदादिः-१४२९। सक। सेट्। उभ।)
03
=>
(श्लो। १६०)
04
=>
(१९३)
05
=>
[[१। शानचि, ‘तुदादिभ्यः--’ (३-१-७७) इति विकरणप्रत्ययः शः। तस्य ङिद्वद्भा- वेनाङ्गस्य गुणो न।]]
06
=>
[[आ। ‘मित्रैः सम्मिलमान एत्य नगरोद्यानं विमुञ्चन् भियम्…।’ धा। का। २। ८५।]]
07
=>
[[२। ल्युटि अनादेशे गुणे रूपमेवम्। ‘परिमिलनमप्राप्य हरितम्’, ‘मुक्तांशुजाल- मिलनाद् रुचिरैः प्रवालैः बिम्बाधरं स्मितविशेषयुतं प्रियाणाम्।’ (पादुकासहस्रे ५५२ श्लो।) इत्यादिषु ‘संज्ञापूर्वको विधिरनित्यः’ (परि। ९५) इति गुणनिषेधः इति तत्तद्व्याख्यासु प्रतिपादितम्। बोपदेवव्याकरणे मुग्धबोधे तु मिलधातोः (लिख- धातोश्च) कुटादित्वमङ्गीकृत्य, ल्युटि ‘गाङ्कुटादिभ्योऽञ्णिन्ङित्’ (१-२-१) इति ङिद्वद्भावेन गुणनिषेधः साधितः। अत एव ‘लिखनसंक्षेपनिर्बन्धवतो दीधितिकारस्य--’ इत्यादिकानि गदाधरादिवाक्यान्यपि साधून्येवेति ज्ञेयम्।]]
08
=>
[[३। स्त्रियां भावादौ, भिदादेः (३-३-१०४) आकृतिगणत्वेन अङ्प्रत्ययः, उपधागुणश्च। मिलन्त्यत्रेति अधिकरणेऽङ्।]]
09
=>
[पृष्ठम्१०२७+ २४]