| YouTube Channel

मिमार्जयिषकः-षिका (mimArjayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मार्ज शब्दार्थः”@} 2 ‘शौचालङ्कारयोर्वा णौ मृजेर्मार्जति मार्जयेत्।।
मार्ष्टि शुद्धौ तथा मार्जेः शब्दार्थाद् मार्जयेण्णिचि।’ 3 इति देवः।
‘शुद्धौ इति द्रुमे।’ इति धा।
का।
व्या।
4।
मार्जकः-र्जिका, मिमार्जयिषकः-षिका
मार्जयिता-त्री, मिमार्जयि-षिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगर्जयतिवत् 5 ज्ञेयानि।
6 विमार्जनम्।
प्रासङ्गिक्यः
01
=>
(१२४९)
02
=>
(१०-चुरादिः-१६४९। अक। सेट्। उभ।)
03
=>
(श्लो। ६०। ६१)
04
=>
(३-२८)
05
=>
(३७८)
06
=>
[[B। ‘इत्थं सुगाजितमृदङ्गविमार्जनानि--’ धा। का। ३। २८।]]
1 {@“मृजू शौचालङ्कारयोः”@} 2 आधृषीयः।
‘शौचालङ्कारयोर्वा णौ मृजेर्मार्जति मार्जयेत्।।’ 3 इति देवः।
‘मृजूष्--’ इति क्षीरस्वामी।
ऊदित्त्वस्य ण्यन्ते प्रयोजनाभावात्, शुद्ध एवोपयोगाच्चास्य णिज्विकल्प इति ज्ञेयम्।
यद्वा, आधृषीयत्वेनेड्विकल्प इति बोध्यम्।
मार्जकः-र्जिका, मिमार्जयिषकः-षिका, मार्जकः-र्जिका, मिमार्जिषकः-षिका, मिमृक्षकः-क्षिका, मरीमृजकः-मरीमार्जकः-र्जिका
मार्जयिता-त्री, मिमार्ज- यिषिता-त्री, मार्जिता-त्री, मार्ष्टा-मार्ष्ट्री, मिमार्जिषिता-मिमृक्षिता-त्री, मरीमृजिता-मरीमार्जिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि यथा- सम्भवमूह्यानि।
णिजभावपक्षे पूर्वलिखितादादिकमार्ष्टिवत् 4 सन्नन्ते, यङन्ते रूपाणि बोध्यानि।
ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च, णिन्नि- मित्तकं लघूपधलक्षणं गुणं बाधित्वा, ‘मृजेर्वृद्धिः’ 5 इति वृद्धि- रिति विशेषः।
वृद्धिविधायके सूत्रे उत्सृष्टानुबन्धस्य मृजेरविशेषेण ग्रहणमिति विवेकः।
प्रासङ्गिक्यः
01
=>
(१३०३)
02
=>
(१०-चुरादिः-१८४९। सक। सेट्। उभ।)
03
=>
(श्लो। ६०)
04
=>
(१३०२)
05
=>
(७-२-११४)