| YouTube Channel

मिमन्थिषकः-षिका (mimanthiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मथि हिंसासंक्लेशनयोः”@} 2 ‘मन्थ--’ इति क्षीरस्वामी।
‘हिंसासंक्लेशयोर्मन्थेत् मथेन्मथ्नाति लोडने।’ 3 इति देवः।
मन्थकः-न्थिका, मन्थकः-न्थिका, मिमन्थिषकः-षिका, मामन्थकः-न्थिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुन्थतिवत् 4 ज्ञेयानि।
सन्नन्तादुप्रत्यये- 5 मिमन्थिषुः, 6 खड्गोपमन्थम्-खड्गेनोपमन्थम् वा शत्रुं मारयति, खड्गेनोपमन्थ्य वा।
7 मन्थी 8।
9
प्रासङ्गिक्यः
01
=>
(१२१२)
02
=>
(१-भ्वादिः-४६। सक। सेट्। पर।)
03
=>
(श्लो। ९८)
04
=>
(२२०)
05
=>
[[आ। ‘स भोजराडद्य हरिं मिमन्थिषुः प्रमान्थनं सेधतु को निषेत्स्यति?।।’ धा। का। १। ७।]]
06
=>
[[५। ‘हिंसार्थानां समानकर्मकाणाम्’ (३-४-४८) इति णमुल्। अत्रानुप्रयोगधातुना मारयतिना समानकर्मकत्वादस्य धातोर्णमुल् इति ज्ञेयम्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समासविकल्पः। वासरूपन्यायेन क्त्वाऽप्यत्र ज्ञेयः। तेन ल्य- बन्तस्यापि प्रयोगः प्रदर्शितः।]]
07
=>
[[६। ग्रह्यादित्वात् (३-१-१३४) कर्तरि णिनिप्रत्यये रूपमेवम्। ग्रह्यादिराकृतिगणः।]]
08
=>
[[B। ‘परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्।’ भ। का। ६। ७५।]]
09
=>
[पृष्ठम्०९९४+ २८]
1 {@“मन्थ विलोडने”@} 2 3 “अत्रायं धातुर्यद्यपि क्षीरस्वाम्यादिभिः पठ्यते, तथापि मैत्रेय-चन्द्र-दुर्गैः पठितत्वात्, ‘शमीगर्भादग्निं मन्थति’, ‘ततो यथा प्राशु मन्थति।
यदि मथ्यमानो जायेत’ इत्यादिदर्शनाच्चास्त्येव।” इति मा।
धा।
वृत्तिः।]] ‘विलोडनम् = क्षोभणम्’ इति मा।
धा।
वृत्तिः।
अयं द्विकर्मकः।
‘हिंसासंक्लेशयोर्मन्थेत्, मथेन्मथ्नाति लोडने।’ 4 इति देवः।
मन्थकः-न्थिका, मन्थकः-न्थिका, मिमन्थिषकः-षिका, मामथकः-थिका
मन्थिता-त्री, मन्थयिता-त्री, मिमन्थिषिता-त्री, मामथिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि कुथ्नातिवत् 5 बोध्यानि।
क्विपि-मत्- मथ्-मथौ-मथः
6 मन्थन्-न्ती, 7 मन्थः, मन्थनम्- 8 मन्थनी, 9 मथित्वा- मन्थित्वा, 10 मन्थानः इमानि रूपाणि अस्य धातोः विशेषः।
प्रासङ्गिक्यः
01
=>
(१२२०)
02
=>
(१-भ्वादिः-४२। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(श्लो। ९८)
05
=>
(२२३)
06
=>
[[१। अस्य धातोः भ्वादित्वाद् औत्सर्गिके शपि रूपमेवम्।]]
07
=>
[[२। ‘हलश्च’ (३-३-१२१) इति करणे संज्ञायां घञ्।]]
08
=>
[[३। ‘करणाधिकरणयोश्च’ (३-३-११७) इति अधिकरणे ल्युडन्तात् स्त्रियाम्, ‘टिड्ढाणञ्--’ (४-१-१५) इति ङीपि रूपमेवम्।]]
09
=>
[[४। क्त्वायाम्, ‘नोपधात् थफान्ताद्वा’ (१-२-२३) इति कित्त्वविकल्पनात् पक्षे नलोपः। तेन रूपद्वयं ज्ञेयम्।]]
10
=>
[[५। बाहुलकात् आनच्प्रत्यये रूपम्।]]
1 {@“मन्थ विलोडने”@} 2 ‘--विलोटने’ इति पुरुषकारे 3 पाठः।
‘हिंसासंक्लेशयोर्मन्थेत्, मथेन्मथ्नाति लोडने।’ 4 इति देवः।
मन्थकः-न्थिका, मन्थकः-न्थिका, मिमन्थिषकः-षिका, मामथकः-थिका
मन्थिता-त्री, मन्थयिता-त्री, मिमन्थिषिता-त्री, मामथिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि क्रैयादिकग्रथ्नातिवत् 5 बोध्यानि।
6 मन्थाः इति रूपं विशेषः।
7
प्रासङ्गिक्यः
01
=>
(१२२१)
02
=>
(९-क्र्यादिः-१५११। सक। सेट्। पर।)
03
=>
(श्लो। ९८)
04
=>
(श्लो। ९८)
05
=>
(४३७)
06
=>
[[६। ‘मन्थः’ (द। उ। ६-६२) इति इनिप्रत्ययः किच्च। मथ्नातीति मन्थाः = वायुः, वैशाखः, वज्रश्च। ‘पथिमथि--’ (७-१-८५) इत्याकारे ‘इतोऽत्--’ (७-१-८६) इत्यकारे प्रथमैकवचने रूपमेवम्। ‘वैशाखो मन्थमन्थानमन्थानो मन्थदण्डके’ इत्यमरः (२। ७४)।]]
07
=>
[पृष्ठम्१००४+ २५]