| YouTube Channel

मिमदिषणम् (mimadiSaNam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मदी हर्षग्लेपनयोः”@} 2 शमादिः, घटादिश्च।
‘ग्लेपनम् = दैन्यम्’ इति मा।
धा।
वृत्तिः।
‘ग्लपने’ इति क्षीरतरङ्गिण्यां पाठः।
‘स्तुत्यादौ मन्दते, हर्षे माद्येत्, मादयते णिचि।।’ 3 इति देवः।
4 मादकः-दिका, 5, मादकः 6 इत्यादिषु मित्त्वं नेति ज्ञेयम्।]] मदकः-निमादकः-मादकः-दिका, मिमदिषकः-षिका, मामदकः-दिका
मदिता-त्री, मदयिता-त्री, मिमदिषिता-त्री, मामदिता-त्री
7 माद्यन्-न्ती, मदयन्-न्ती, मिमदिषन्-न्ती
-- मदिष्यन्-न्ती-ती, मदयिष्यन्-न्ती-ती, मिमदिषिष्यन्-न्ती-ती
-- -- मदयमानः, मदयिष्यमाणः, --मामद्यमानः, मामदिष्यमाणः
सुमत्-सुमद्-सुमदौ-सुमदः
-- -- -- 8 मत्तम्-मत्तः-मत्तवान्, मदितः, मिमदिषितः, मामदितः-तवान्
मदः, 9 प्रमद्वरः, 10 प्रमादी, 11 इरम्मदः 12, 13 उन्मदिष्णुः 14, मदः, 15 मदनः, मिमदिषुः, मामदः
मदितव्यम्, मदयितव्यम्, मिमदिषितव्यम्, मामदितव्यम्
16 मदनीयम्, मदनीयम्, मिमदिषणीयम्, मामदनीयम्
माद्यम्- 17 मद्यम्, मद्यम्, मिमदिष्यम्, मामद्यम्
ईषन्मदः-दुर्मदः-सुमदः
-- -- -- मद्यमानः, मद्यमानः, मिमदिष्यमाणः, मामद्यमानः
मादः, 18 विद्यामदः-धनमदः, कुलमदः, 19 20 प्रमदः, 21 सम्मदः, प्रमादः-सम्मादः-उन्मादः-विमादः, मदः, मिमदिषः, मामदः
मदितुम्, मदयितुम्, मिमदिषितुम्, मामदितुम्
मत्तिः, मदना, मिमदिषा, मामदा
मदनम्, मदनम्, मिमदिषणम्, मामदनम्
मदित्वा, 22 मदयित्वा, मिमदिषित्वा, मामदित्वा
प्रमद्य, प्रमदय्य, प्रमिमदिष्य, प्रमामद्य
मादम् २, मदित्वा २, 23 मादम् -मदम् २, 24 मदयित्वा २, मिमदिषम् २, मिमदिषित्वा २, मामदम्
मामदित्वा
25 इति ण्यन्तात् इत्नुच्प्रत्यये रूपमेवम्।
मदयित्नुः = मदिरा।]] मदयित्नुः, 26 इत्यादिना किरच्प्रत्यये रूपमेवम्।
माद्यन्तेऽ- नयेति मदिरा = सुरा।]] मदिरा, 27 मत्सरः, 28 मत्स्यः-मत्सी।
29
प्रासङ्गिक्यः
01
=>
(१२१६)
02
=>
(४-दिवादिः-[८१५] १२०८। अक। सेट्। पर।)
03
=>
(श्लो। ११२)
04
=>
[पृष्ठम्०९९६+ २८]
05
=>
[[१। ‘घटादयो मितः’ (ग। सू। भ्वादौ) इति मित्त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाया ह्रस्वो भवति। एवं ण्यन्ते सर्वत्र ज्ञेयम्। ‘मदी हर्षे’ इति दिवादिषु पठितस्यैव धातोर्मित्त्वार्थं घटादिषु (भ्वादौ) अनुवादः। तेन हर्षग्लेपन- रूपार्थविशेष एव घटादिपाठात् मित्त्वेन मदकः इत्यादीनि ण्यन्ते रूपाणीति ज्ञेयम्। अन्यत्रार्थेषु निमादकः [= अक्षरव्यञ्जनानां स्पष्टमुच्चारयिता]
06
=>
[= चित्तविकारोत्पादयिता]
07
=>
[[२। श्यनि, ‘शमामष्टानाम्--’ (७-३-७४) इति दीर्घे रूपमेवम्।]]
08
=>
[[३। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिण्निषेधे ‘न ध्याख्यापॄमूर्च्छि- मदाम्’ (८-२-५७) इति निष्ठानत्वनिषेधे रूपमेवम्।]]
09
=>
[[४। ‘स्थेशभास-’ (३-२-१७५) इत्यत्र “प्रमद्वरोऽपि इति केचित्।” इति प्रक्रियाकौमुदी।]]
10
=>
[[५। ‘शमित्यष्टाभ्यः--’ (३-२-१४१) इति ताच्छील्ये घिनुण्प्रत्यये रूपमेवम्।]]
11
=>
[[६। इरया माद्यतीति इरम्मदः = मेघज्योतिः। इरा = उदकम्। ‘उग्रम्पश्येरम्मद- पाणिन्धमाश्च’ (३-२-३७) इति कर्तरि तृजाद्यपवादतया खश् निपात्यते। निपातना- देव श्यन् न। ‘इरया = वारिणा माद्यन् वैद्युताग्निरिरम्मदः।’ इति प्र। सर्वस्वे।]]
12
=>
[[आ। ‘इरम्मदं ज्योतिरमुञ्चदब्भ्रं शनैश्शनैः प्रावृषिकं ररास।।’ वा। वि। ३। ६।]]
13
=>
[[७। ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद--’ (३-२-१३६) इत्यादिना तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
14
=>
[[B। ‘व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथंचिदारादपथेन निन्यिरे।।’ शि। व। १२। २८।]]
15
=>
[[८। ण्यन्तात् ‘नन्दिग्रहि--’ (३-१-१३४) इति नन्द्यादित्वात् कर्तरि ल्युप्रत्यये रूपमेवम्। मदयतीति मदनः।]]
16
=>
[पृष्ठम्०९९७+ ३२]
17
=>
[[१। “मदसाधनम्--मद्यम्। बाहुलकात् करणे यत्।” इति प्र। सर्वस्वे।]]
18
=>
[[२। ‘मदोऽनुपसर्गे’ (३-३-६७) इति अनुपसर्गेऽप्प्रत्ययः। घञोऽपवादः। कुलमदः, धनमदः, इत्यादिषु चैवं ज्ञेयम्।]]
19
=>
[कन्यानाम्]
20
=>
[[३। ‘प्रमदसम्मदौ हर्षे’ (३-३-६८) इति हर्षेऽभिधेये एतौ शब्दौ निपात्येते। हर्षादन्यत्र, उपसर्गे प्रमादः, संमादः इत्यादिषु घञ् इति ज्ञेयम्। ‘सध माद- स्थयोश्छन्दसि’ (६-३-९६) इत्यत्र माद इति निर्देशबलात् केवलादप्यस्माद्- धातोर्घञ् भवतीति ज्ञेयम्।]]
21
=>
[कोकिलानाम्]
22
=>
[[आ। ‘कपितोयनिधीन् प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन।’ भ। का। १०। २८।]]
23
=>
[[४। घटादिषु पाठसामर्थ्यात् ‘चिण्णमुलोः--’ (६-४-९३) इति णौ परतः दीर्घो विकल्पेन भवति। तेन रूपद्वयं ज्ञेयम्।]]
24
=>
[[आ। ‘कपितोयनिधीन् प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन।’ भ। का। १०। २८।]]
25
=>
[[५। ‘स्तनिहृषिपुषिगदिमदि--’ [द। उ। १-१४०]
26
=>
[[६। ‘इषिमदि--’ [द। उ। ८-२६]
27
=>
[[७। ‘कृधूमदिभ्यः कित्’ (द। उ। ८-५३) इति सरन्प्रत्ययः, तस्य कित्त्वम्। माद्यत्यसौ परव्यसनैरिति मत्सरः = ईर्ष्या।]]
28
=>
[[८। ‘ऋतन्यञ्चि--’ (द। उ। १०-१२) इत्यादिना स्यन्प्रत्यये रूपमेवम्। माद्यत्युदकं प्राप्य इति मत्स्यः। स्त्रियाम् गौरादिपाठात् (४-१-४१) ङीष्। ‘मत्स्यस्य ङ्याम्--’ (वा। ६-४-१४९) इति यकारलोपः।]]
29
=>
[पृष्ठम्०९९८+ २७]