| YouTube Channel

मिन्मिन (minmina)

 
Apte
English
मिन्मिन [minmina] [l] , (ल)
a.
One who speaks with nasal utterance
a snuffler
आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः नरान् करोत्यक्रियकान् मूकमिन्मिलगद्गदान्
Monier Williams Cologne
English
मिन्मिन
mfn.
=
मिण्मिण,
L.
Monier Williams 1872
English
मिन्मिन मिन्मिन = मिण्मिण, p. 777, col. 1.
Shabdartha Kaustubha
Kannada
मिन्मिन
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಅರೆಮೂಗ /ಅನುನಾಸಿಕ ಸಹಿತವಾಗಿ ಮಾತಾಡುವವನು
विस्तारः - > ಕಫಸಹಿತವಾದ ವಾಯುವು ಧಮನಿಗಳನ್ನು ಆವರಿಸಿಕೊಂಡು ಮನುಷ್ಯನನ್ನು ಮೂಕನನ್ನಾಗಿಯೂ ಅರೆಮೂಗನನ್ನಾಗಿಯೂ ತೊದಲುತ್ತ ಮಾತಾಡುವವನನ್ನಾಗಿಯೂ ಮಾಡುವುದು "आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः नरान् करोत्यक्रियकान् मूकमिन्मिनगद्गदान् ॥"
शब्दकल्पद्रुमः
Sanskrit
मिन्मिनः, त्रि, सानुनासिकवाग्विशिष्टः खोनाइति भाषा तस्य निदानं यथा, --“आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ।नरान् करोत्यक्रियकान् मूकमिन्मिनगद्गदान्
”इति माधवकरः
अक्रियकान् इत्यत्रावचनानिति पाठः ।अवचनान् अत्रेषदर्थे नञ् तेन ईषद्वचनान् ।स एव वायुः प्रबलश्चेत्तदा मूकान् अवचनान् ।मिन्मिनान् सानुनासिकान् गद्गदान् लुप्तपद-व्यञ्जनाभिधायिनः करोतीत्यन्वयः एषांसमानकारणत्वेऽपि दुष्टेरुत्कर्षादिना अदृष्ट-वशाद्वा भेदो बोद्धव्यः
*
अथ तेषां चिकित्सा ।“प्रस्थं घृतस्य पलिकैः शिग्रुवचालवणधातकीलोध्रैः ।आजे पयसि विपक्वं सिद्धं सारस्वतं नाम्ना
विधिवदुपयुज्यमानं जडगद्गदमूकतां क्षणात्जित्वा ।स्मृतिमतिमेधाप्रतिभाः कुर्य्यात् संस्पष्टवाग्-भवति
सारस्वतं घृतम् ।“सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम् ।अजाजी चाजमोदा यष्टीमधुकसैन्धवम्
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।तच्चूर्णं सर्पिषालोड्य प्रत्यहं भक्षयेन्नरः
एकविंशतिरात्रेण भवेच्छ्रुतिधरो नरः ।मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः
”इति भावप्रकाशस्य द्बितीये भागे मध्यखण्डेवातव्याध्यधिकारे