| YouTube Channel

मिद (mida)

 
शब्दकल्पद्रुमः
Sanskrit
मिद स्निहि इति कविकल्पद्रुमः
(चुरा०-पर०-अक०-सेट् ।) मिन्दयति वर्त्तिकातैलेन इति दुर्गादासः
मिद इर् स्निहि इति कविकल्पद्रुमः
(दिवा०-पर०-अक०-सेट् ।) इर् अमिदत्अमेदीत् इति व्यायामशीलोऽसौ महा-कायो मेद्यतीति हलायुधः मेदितंमिन्नं तेन इति दुर्गादासः
मिद वधमेधयोः इति कविकल्पद्रुमः
(भ्वा०-उभ०-सक०-सेट् ।) अमिमेदत् ।ञ मेदति मेदते शास्त्रार्थं शिष्यो धारयती-त्यर्थः मिमिदुः मिमेदुः इति दुर्गा-दासः
मिद, ञि स्निहि इति कविकल्पद्रुमः
(भ्वा०-आत्म०-सक०-सेट् ।) अमिदत् ।ञि मिन्नोऽस्ति मेदते इति दुर्गादासः
मिद, स्निहि इति कविकल्पद्रुमः
(चुरा०-पर०-अक०-सेट् ।) मेदयति वर्त्तिका तैलेन ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मिद बाधे मेधायाञ्च
भ्वा०
उ०
सक०
सेट् मेदति--ते अमेदीत् ऋदित् चङि ह्रस्वः
मिद स्नेहे
भ्वा०
आ० लुङि प० अक० सेट् मेदते इरित्अमिदत् आदित् भावादौ क्ते मिन्नं मेदितम्
मिद स्नेहे वा
चु०
उभ०
पक्षे
भ्वा०
अक० सेट् इदित् मिन्द-यति अमिन्दत्--त पक्षे मिन्दति अमिन्दीत्
मिद स्नेहे दि०
पर०
सक०
सेट् मेद्यति--ते इरित्अमिदत् अमेदीत् आदित् क्त मेदितं भिन्नम्
मिद स्नेहे
चु०
उम०
सक०
सेट्’ मेदयति--ते अमीमिदत्--त