| YouTube Channel

मिथ्योत्तरं (mithyottaraM)

 
शब्दकल्पद्रुमः
Sanskrit
मिथ्योत्तरं,
क्ली,
(मिथ्या असत्यमुत्तरं ।) चतुर्धो-त्तरान्तर्गतोत्तरविशेषः तस्य लक्षणम् ।“अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम् ।मिथ्या तत्त विजानीयादुत्तरं व्यवहारतः
”इति नारदः
तच्चतुर्व्विधम् मिथ्यैतत् अहं नाभिजानामि२ मम तत्र सन्निधिः तत्कालेऽहमजातः४ यथा, व्यासनारदौ ।“मिथ्यैतन्नाभिजानामि मम तत्र सन्निधिः ।अजातश्चास्मि तत्काले इति मिथ्या चतु-र्व्विधम्
”इति व्यवहारतत्त्वम्