| YouTube Channel

मिथ्यासाक्षी (mithyAsAkSI)

 
शब्दकल्पद्रुमः
Sanskrit
मिथ्यासाक्षी, [न्] त्रि, (मिथ्याभाषी साक्षी-साक्षाद् द्रष्टा चेति ।) कूटसाक्षी तस्य ज्ञान-प्रकारमाह याज्ञवल्क्यः ।“उक्तेऽपि साक्षिभिः साक्ष्ये यदन्ये गुणवत्तमाः ।द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्व्व-साक्षिणः
”मिथ्यासाक्ष्यकथने दोषमाह याशवल्क्यः ।“ये पातककृतां लोका महापातकिनां तथा ।अग्निदानाञ्च ये लोका ये स्त्रीबालघाति-नाम्
एतान् सर्व्वानवाप्नोति यः साक्ष्यमनृतं वदेत् ।सुकृतं यत्त्वया किञ्चित् जन्मान्तरशतैः कृतम् ।तत् सर्व्वं तस्य जानीहि यं पराजयसे मृषा
”इति मिताक्षरा