| YouTube Channel

मिथृ (mithR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मिथ्
मूलधातुः:
मिथृ
धात्वर्थः:
मेधा-हिंसनयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
मेथति-मेथते
क्षीरतरङ्गिणी
Sanskrit
मिथृँ मिथृ
मानकरूपान्तरम् - मेथृँ
मेथृ मेधा, हिंसनयोः
- मेथते, मेथति किति गुणविकल्पार्थं द्वौ- मिथ्यते, मेथ्यते अभिमेथत् मेथोऽचि गौरादौ (गण0 4141) मेथी मेथीवद्धो ऽहि हि भ्राम्यन् घासग्रासं करोति गौः (द्र0 सुभाषितावली 2958) अमरसिंहस्तु-पुंसि मेथिः खले दारू न्यस्तं यत् पशुबन्धने (2925 मिदृ मेदृ इति दुर्गः 839, 840
कृदन्तरूपमाला
Sanskrit
1 {@“मिथृ मेधाहिंसनयोः”@} 2 उत्तरत्र विलेखिष्यमाणस्य मेदृधातोः क्षीरस्वामिसम्मतः पाठ एवम्।
मेथकः-थिका, मेथकः-थिका, मिमिथिषकः-मिमेथिषकः-षिका, मेमिथकः- थिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेटतिवत् 3 ज्ञेयानि।
पचाद्यचि--मेथः।
स्त्रियां गौरादित्वात् ङीषि मेथी = पशूनां पाशविशेषः।
मेथिः इत्यपि तस्य क्वचिन्नाम।
‘मेथीबद्धोऽपि हि भ्राम्यन् घासग्रासं करोति गौः।’ 4 इति क्षीरस्वामिना उद्धृतम्।
प्रासङ्गिक्यः
01
=>
(१२५४)
02
=>
(१-भ्वादिः-८६८। सक। सेट्। उभ।)
03
=>
(१९०)
04
=>
(सुभाषितावलिः २९५८)