| YouTube Channel

मिथुनं (mithunaM)

 
शब्दकल्पद्रुमः
Sanskrit
मिथुनं,
क्ली,
(मेथतीति मिथ् + “क्षुधिपिशिमिथः कित् ।” उणा० ५५ इतिउनन् किद्भावाद्गुणाभावश्च ।) स्त्रीपुंसयो-र्युग्मम् तत्पर्य्यायः द्बन्द्बम् इत्यमरः ।५ ३८
(यथा, रामायणे १५ ।“मानिषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्
”)युगलम् इति तट्टीकायां रामाश्रमः
मेषादिद्वादशराश्यन्तर्गततृतीयराशिः तत्पर्य्यायः ।जितुमः तच्च द्बिपदं ग्राम्यं समसंज्ञकम् ।अस्योदयस्य स्थूलमानं षट्पलाधिकपञ्चदण्डाः ।इति ज्योतिषतत्त्वम्
अस्याधिष्ठातृदेवतागदाधारिपुरुषः वीणाधारिस्त्री मृगशिरः-शेषार्द्धं आर्द्रासमुदायः पुनर्व्वसोस्त्रिपादं एतै-र्भवति तत्तु शीर्षोदयं पश्चिमदिक्स्वामिवायु-प्रकृतिहरिद्बर्णं वनस्थितं शूद्रवर्णं स्निग्धंमध्यस्त्रीसङ्गं मध्यमसन्तानञ्च तत्र जातो जनःमृगचक्षुः मिष्टभाषी कृशः वञ्चकः धर्म्ममतिःविनयभाजनञ्च भवति इति बृहज्जातकादयः
अथ मिथुनलग्नजातफलम् ।“मिथुनोदयसंजातो मानी स्वजनवत्सलः ।त्यागी भोगी धनी कामी दीर्घसूत्रोऽरि-मर्द्दनः
”इति कोष्ठीप्रदीपः
*
रात्रौ तल्लग्ननिरूपणं यथा, --“दन्तसंख्यभवने झसाकृता-वन्तभे लसदनन्तमध्यगे ।कोमलाङ्गि ! मिथुनोदयात् प्रिये !कालखानलकलाः प्रियेऽचलन्
।इति कालिदासकृतरात्रिलग्ननिरूपणम्