| YouTube Channel

मिथिः (mithiH)

 
शब्दकल्पद्रुमः
Sanskrit
मिथिः,
पुं,
(मेथते हिनस्ति शत्रुकुलं इति मिथ् +“सर्व्वधातुभ्य इन् ।” उणा० ११७ इति इन् ।)निमिराजपुत्त्रः तु जनकराजः यथा ।अपुत्त्रस्य तस्य निमेर्भूभुजः शरीरमराजक-भीरवस्ते मुनयः अरण्यां ममन्थुः तत्र चकुमारी जज्ञे जननाज्जनकसंज्ञां चासाव-वाप अभूद्बिदेहोऽस्य पितेति वैदेहः मथ-नान्मिथिरभूत् तस्योदावसुः पुत्त्रोऽभवत् इतिविष्णुपुराणे अंशे अध्यायः
(तथाचरामायणे ७१ ।“निमिः परमधर्म्मात्मा सर्व्वसत्त्ववतां वरः ।तस्य पुत्त्रो मिथिर्नाम जनको मिथिपुत्त्रकः
”)