| YouTube Channel

मित्रं (mitraM)

 
शब्दकल्पद्रुमः
Sanskrit
मित्रं,
क्ली,
बन्धुः मिता इति भाषा तत्पर्य्यायः ।सखा सुहृत् इत्यमरः १२
माययति जानाति सर्व्वं मित्रं मी कि गत्यांनाम्नीति डित्रः मित्रमजहल्लिङ्गम् निपाता-त्तस्य द्वित्वे द्वितकारञ्च इति तट्टीकायांभरतः
तच्चतुर्व्विधम् सहार्थः भजमानः २सहजः कृत्रिमः इति महाभारते राज-धर्म्मः
*
मित्रत्वोत्पत्तिर्यथा, --“न कश्चित् कस्यचिन्मित्रं कश्चित् कस्यचि-द्रिपुः ।कारणादेव जायन्ते मित्राणि रिपवस्तथा
”वर्ज्यमित्रं यथा, --कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् ।कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्जयेत्
कुमित्रे नास्ति विश्वासः कुराजे नास्तिजीवितम्
परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।वर्जयेत्तादृशं मित्रं मायामयमरिन्तथा
”विश्वस्तस्यैव मित्रत्वं यथा, --“सा श्रीर्या मदं कुर्य्यात् सुखी तृष्णयोज्-झितः ।तन्मित्रं यस्य विश्वासः पुरुषः जितेन्द्रियः
”इति गारुडे १३ १४ १५ अध्यायाः
*
मित्रप्रशंसादिर्यथा, --“यस्य मित्रेण संभाषो यस्य मित्रेण संस्थितिः ।यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान्
यानि कानि मित्राणि कर्त्तव्यानि शतानि ।पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः
परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।यस्यार्थाः पुमान् लोके यस्यार्थाः हिपण्डितः
अपुत्त्रस्य गृहं शून्यं सन्मित्ररहितस्य ।मूर्खस्य दिशः शून्याः सर्व्वशून्या दरिद्रता
”इति हितोपदेशः