| YouTube Channel

माहेन्द्रः (mAhendraH)

 
शब्दकल्पद्रुमः
Sanskrit
माहेन्द्रः,
पुं,
(महेन्द्रस्यायम् महेन्द्र + अण् ।)शुभदण्डविशेषः रव्यादिसप्तवारेषु वायुवरुण-यममाहेन्द्राणामेकैकदण्डा भवन्ति तत्र वरुण-माहेन्द्रयोर्द्दण्डौ शुभौ वायुयमयोर्द्दण्डावशुभौ ।यथा, “ख्यातं वा यमा सूर्य्ये मा वा कलानिधौ ।व मा वा कुजे ज्ञेया मा वा सुधांशुजे
गुरौ वा मा चैव मा वा तथा भृगौ ।सूर्य्यपुत्त्रे मा वा घटीयुग्मं शुभाशुभम्
माहेन्द्रे विजयो नित्यं वारुणे धनागमः ।वायौ भ्रमते नित्यं यमेऽपि मरणं ध्रुवम्
”)इति सारसंग्रहः
(माहेन्द्रकायपुरुषस्य लक्षणं यथा, --“माहात्म्यं शौर्य्यमाज्ञा सततं शास्तबुद्धिता ।भृत्यानां भरणञ्चापि माहेन्द्रं कायलक्षणम्
”इति सुश्रुते शारीरस्थाने चतुर्थऽध्याये
महेन्द्रो देवतास्येति महेन्द्र + “महेन्द्राद्-घाणौ ।” २९ इति अण् ।महेन्द्रदैवत्ये, त्रि यथा, भट्टिकाव्ये १५ ९३ ।“अविभ्रजत्ततः शस्त्रमैषीकं राक्षसो रणे ।तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्
”)महेन्द्रसम्बन्धिनि (यथा, रघौ १२ ८६ ।“मातलिस्तस्य माहेन्द्रं ह्यामुमोच तनुच्छदम्
”)