| YouTube Channel

माहकः-हिका (mAhakaH-hikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मह पूजायाम्”@} 2 ‘महयेन्महतीत्येते पूजायां णौ शपि क्रमात्।’ 3 इति देवः।
क्षीरस्वामी नामुं धातुं पठति।
माहकः-हिका, माहकः-हिका, मिमहिषकः-षिका, मामहकः-हिका
महिता-त्री, माहयिता-त्री, मिमहिषिता-त्री, मामहिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचहतिवत् 4 बोध्यानि।
5 मही, 6 महिषः-महिषी, महिष्मान्, 7 महत्-महान्-महान्तौ-महान्तः, 8 माहिनम्-महिनम्, महिमा, इत्यादीनि रूपाणि अस्य धातोः विशेषेण संभवन्तीति विशेषः।
कर्मणि क्तप्रत्यये 9 महितम्-तः इति।
प्रासङ्गिक्यः
01
=>
(१२३६)
02
=>
(१-भ्वादिः-७३०। सक। सेट्। पर।)
03
=>
(श्लो। १९६)
04
=>
(५१४)
05
=>
[[१। पचाद्यजन्तात् महशब्दात् गौरादित्वात् (४-१-४१) स्त्रियां ङीषि रूपमेवम्।]]
06
=>
[[२। ‘अविमह्योष्टिषच्’ (द। उ। ९-३) इति टिषच्प्रत्यये महिषः इति रूपम्। टित्त्वात् स्त्रियां महिषी इति भवति। महिषा अस्मिन् सन्तीति महिष्मान् = देशः। ‘महिषाच्चेति वक्तव्यम्’ (वा। ४-२-८७) इति ‘तदस्मिन्नस्तीति देशे तन्नाम्नि’ (४-२-६७) इति विषये ड्मतुप्प्रत्यये डित्त्वाट्टिलोपे रूपमेवम्।]]
07
=>
[[३। ‘वर्त्तमाने पृषद्बृहन्महद्--’ (द। उ। ६-५) इति वर्तमानकाले कतिप्रत्यये शतृव- दित्यतिदेशान्नुमि, ‘सान्तमहतः संयोगस्य’ (६-४-१०) इत्यसंबुद्धौ सर्वनामस्थाने परतः उपधायाः दीर्घे महान् इति रूपं सिध्यति।]]
08
=>
[[४। ‘महेरिनण् च’ (द। उ। ५। १९) इति इनण्प्रत्यये माहिनम् इति, चकारात् इनन्प्रत्यये महिनम् इति रूपम्। महिनम् = राज्यम्।]]
09
=>
[[आ। ‘चाहेनामहितस्य चास्य निधनोद्योगं रहस्यूचिवान्…।।’ धा। का। १। ९१।]]
1 {@“माहृ माने”@} 2 ‘मानम् = वर्तनम्।’ इति क्षीरस्वामी।
माहकः-हिका, माहकः-हिका, मिमाहिषकः-षिका, मामाहकः-हिका
माहिता-त्री, माहयिता-त्री, मिमाहिषिता-त्री, मामाहिता-त्री
इत्यादि- 3 कानि सर्वाण्यपि रूपाणि भौवादिककाशतिवत् 4 ज्ञेयानि।
क्विपि प्रमाट्-प्रमाड्-प्रमाहौ-प्रमाहः इति रूपमिति विशेषः।
अस्योभयपदित्वात् प्रमाहन्-न्ती-ती, माहिष्यन्-न्ती-ती, इत्यादीन्यपि रूपाणि शतरि स्यप्रत्यये सम्भवन्ति।
ण्यति- 5 अमाह्यः।
प्रासङ्गिक्यः
01
=>
(१२५०)
02
=>
(१-भ्वादिः-८९५। सक। सेट्। उभ।)
03
=>
[पृष्ठम्१०२०+ २४]
04
=>
(१८६)
05
=>
[[आ। ‘या दासते मोदममाह्यधाम्नां गूढाशयानामपि तापसानाम्।।’ धा। का। २। २८।]]