| YouTube Channel

मासः (mAsaH)

 
Apte
English
मासः [māsḥ] सम् [sam], सम् [मा एव अण्]
A month, (it may be चान्द्र, सौर, सावन, नाक्षत्र or बार्हस्पत्य)
मासे प्रतिपत्तासे मां चेन्मर्तासि मैथिलि
Bk.*
8.95.
The moon (Ved. ).
The number 'twelve'.
Comp.
-अधिपः, -अधिपतिः the planet presiding over a month. -अनुमासिक
a.
monthly
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्
Ms.*
3.122.-अन्तः the day of new moon. -अवधिक
a.
lasting for or occurring in a month. -आहार
a.
eating only once a month.
उपवासिनी a woman who fasts for a whole month.
a procuress, a lascivious or lewd woman (ironically.). -ऋक्षम् the constellation after which a month (like चैत्र, वैशाख) is named
माघे सितसप्तम्यां मघाराकासमागमे राकया चानुमत्वा वा मासार्क्षाणि व्युतान्यपि
Bhāg.*
7.14.22. -कालिक
a.
monthly, lasting for a month. -चारिक
a.
practising (any thing) for a month. -जात
a.
a month old, born a month ago. -ज्ञः a kind of gallinule. -देय
a.
to be paid in a month. -पाक
a.
maturing in a month. -प्रमितः the new-moon. -प्रवेशः the beginning of a month. -भुक्तिः (the sun's) monthly course. -मानः a year. -संचयिक
a.
having provisions for a month
सद्यः प्रक्षालको वा स्यान्माससंचयिको$पि वा
Ms.*
6.18.
Apte 1890
English
मासः,
सं [मा एव अण्] 1 A month
(it may be चांद्र, सौर, सावन, नाक्षत्र or बार्हस्पत्य)
मासे प्रतिपत्तासे मां चेन्मर्तासि मैथिलि Bk. 8. 95.
2 The moon (Ved.).
3 The number ‘twelve’.
Comp.
अनुमासिक a. monthly.
अंतः the day of new moon.
अवधिक a. lasting for or occurring in a month.
आहार a. eating only once a month.
उपवासिनी {1} a woman who fasts for a whole month. {2} a procuress, a lascivious or lewd woman (ironically).
कालिक a. monthly, lasting for a month.
जात a. a month old, born a month ago.
ज्ञः a kind of gallinule.
देय a. to be paid in a month.
प्रमितः the new-moon,
प्रवेशः the beginning of a month
मानः a year.
Apte Hindi
Hindi
मासः
पुं*
- -
"महीना (यह चांद, सौर, सावन, नक्षत्र या बार्हस्पत्य में से कोई भी हो सकता हैं)"
मासः
पुं*
- -
बारह की संख्या
Wordnet
Sanskrit
Synonyms:
मासः, माः, पक्षद्वयम्, पक्षयुगम्, नाक्षत्रम्, यौव्यः, वर्षांशः, वर्षाङ्गः
noun
वर्षस्य द्वादशतमांशावधिकः कालः यस्य किमपि निश्चितं नाम अस्ति।
"अस्मिन् मासस्य प्रथमे दिने कर्मचारी-दिवसः अस्ति।"
Synonyms:
मासः, माः
noun
त्रिंशदहोरात्रात्मकः कालः।
"कार्यपूर्त्यर्थम् मासस्य अवधिः आवश्यकः।"
वैजयन्तीकोषः
Sanskrit
Word: मासः
Root: मास
Gender: पुं
Number: all
अर्थः त्रिंशद्दिनात्मकः पौषमाघादिद्वादश मासाः
Meaning(s):
Lunar-month
Shloka(s):
2|1|80|2 मासः सांवत्सरस्तान्तः संक्रान्त्या तु तारणः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|80|2 मासः (मास) (पुं) Lunar-month त्रिंशद्दिनात्मकः पौषमाघादिद्वादश मासाः
2|1|80|2 तान्तः (तान्त) (पुं) Lunar-month त्रिंशद्दिनात्मकः पौषमाघादिद्वादश मासाः
Related word(s):
जातिः कालः
अवयव_अवयवीसंबन्धः शुक्लः
परा_अपरासंबन्धः सावनः
शब्दकल्पद्रुमः
Sanskrit
मासः,
पुं,
(मस् परिमाणे + भावे घञ् ।) माष-परिमाणम् इत्यमरटीकायां भरतः माषाइति भाषा
(मस्यते परिमीयते असावने-नवेति मस् + घञ् ।) शुक्लकृष्णपक्षद्बयात्मकःकालः पौषमाघादिद्बादशसंज्ञकः ।इत्यमरः १२
माश्चन्द्रस्तस्यायं मासःष्णः चान्द्रमासस्येयं व्युत्पत्तिः सौरादिषु तुमस्यते परिमीयतेऽनेनासौ वा मासः मसिर्यई परिमाणे घञ् माः सान्तोऽपि मास्तुमासोऽपि दृश्यते इति हड्डः इति भरतः
*
स्मृतिमतेऽपि पौषादिद्वादशसंज्ञकः यथा, --“चक्रवत् परिवर्त्तेत सूर्य्यः कालवशाद्यतः ।अतः सांवत्सरं श्राद्धं कर्त्तव्यं मासचिह्नितम्
मासचिह्नन्तु कर्त्तव्यं पौषमाघाद्यमेव हि ।यतस्तत्र विधानेन मासः परिकीर्त्तितः
”इति लघुहारीतः
कार्त्तिकादिद्बादशसंज्ञकोऽपि यथा, --“अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभोमतः ।शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यव-स्थया
”स चैत्रादिद्बादशसंज्ञकश्च यथा व्यक्तंब्रह्मपुराणम् ।“चैत्रे मासि जगद्ब्रह्मा ससर्ज्ज प्रथमेऽहनि ।शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति
प्रवर्त्तयामास तदा कालस्य गणनामपि ।ग्रहान्राशीनृतून् मासान् वत्सरान् वत्सराधि-पान् ।इत्यनेन मासर्त्तुवत्सराणां चान्द्रत्वमुक्तम् ।ब्रह्मसिद्धान्तेऽपि ।“चैत्रसितादेरुदयाद्भानोर्व्वर्षर्त्तुमासयुगकल्पाः ।सृष्ट्यादौ लङ्कायामिह प्रवृत्ता दिनैर्व्वत्स
”चैत्रसितादेश्चैत्रशुक्लप्रतिपदस्तामारभ्येत्यर्थः
अपि ।“मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे ।भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः
”चान्द्रसावनसौरनाक्षत्रभेदेन चतुर्व्विधः ।शुक्लप्रतिपदादिदर्शान्तश्चान्द्रः तत्र चान्द्रो-ऽपि द्विविधः शुक्लप्रतिपदादिदर्शान्तो मुख्यः ।कृष्णप्रतिपदादिपौर्णमास्यन्तो गौणः यत्-किञ्चित्त्रिंशत्तिथ्यात्मकश्चेति द्विविधो गौणः ।त्रिंशदहोरात्रात्मकः सावनः आदित्यैक-राशिभोगावच्छिन्नः सौरः सप्तविंशतिनक्षत्रा-वच्छिन्नस्त्रिंशन्नाक्षत्रदिनात्मकश्च नाक्षत्रः ।तथा ब्रह्मसिद्धान्ते ।“चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः ।एकराशौ रविर्यावत् कालं मासः संभास्करः
सर्व्वर्क्षपरिवर्त्तैस्तु नाक्षत्र इति चोच्यते
”सूर्य्यसिद्धान्ते ।“नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रचक्षते ।तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा
ऐन्दवस्तिथिभिस्तद्वत् संक्रान्त्या सौर उच्यते
”तत्त्रिंशता नाक्षत्रदिनत्रिंशता मासो नाक्षत्र-मासः तथा त्रिंशता
*
स्मार्त्तशूलपाणि-मते मुख्यचान्द्र एव मासपदशक्यः जीमूत-वाहनमते सौर एव शक्यः चान्द्रप्रमाणंप्रागुक्तम् सौरप्रमाणन्तु सौरास्तु माघादयोद्बादश एव श्रौताः तथा श्रुतिः तप-स्तपस्यौ शैशिरावृतुः मधुश्च माधवश्च वास-न्तिकावृतुः शुक्रश्च शुचिश्च ग्रैष्मावृतुः अथै-तदुदगयनं देवानां दिनम् नभाश्च नभस्यश्चवार्षिकावृतुः इषश्च ऊर्ज्जश्च शारदावृतुः ।सहाश्च सहस्यश्च हैमन्तिकावृतुः अथैत-द्दक्षिणायनं देवानां रात्रिरिति अत्रायनस्यसौरत्वेन तद्घटकतपस्तपस्यादीनामपि सौरपरतेति अतो भूयसामनुरोधेन वैशाखादयःसौरवाचिनोऽवधार्य्यन्ते इति मलमासतत्त्वम्
अपि ।“मेषस्थित्या रवेर्मासो वैशाखोऽब्दमुखःस्मृतः ।”इति सङ्केतकौमुदी
अथ कर्म्मविशेषे मासविशेषादिः तत्र पिता-महः ।“आब्दिके पितृकृत्ये मासश्चान्द्रमसः स्मृतः ।विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः
”प्रथमादिपदं यात्राग्रहचारपरम् यत् कर्म्मसूर्य्यभोग्यराश्युल्लेखेन यच्च विशिष्योदगयनादिविहितं तत्परञ्च अयनस्य सौरमासघटित-त्त्वात् तच्च चूडोपनयनादि द्बितीयादिपदंसत्रभृतिवृद्बिप्रायश्चित्तायुर्दायाशौचगर्भाधान-पुंसवनसीमन्तोन्नयननामकरणान्नप्राशननिष्क्र-मणचूडादिपरम् तथा विष्णुधर्म्मोत्तरे ।“अध्वायनञ्च ग्रहचारकर्म्मसौरेण मासेन सदाध्यवस्येत् ।सत्राण्युपास्यान्यथ सावनेनलौक्यञ्च यत् स्याद्व्यवहारकर्म्म
”अध्वायनं अध्वगमनं यात्रेति यावत्
*
अथ सौरादिमासविहितकर्म्माणि ।“विवाहोत्सवयज्ञेषु सौरं मासं प्रशस्यते ।पार्व्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टं तथाब्दिके
”अत्र यज्ञपदमुदगयनादिविहितपशुयागाभिप्रायंपितामहोक्तन्तु विष्णुधर्म्मोत्तरोक्तसत्रपरम् ।गर्गः ।“आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा ।सावनेन तु कर्त्तव्या मन्त्राणामप्युपासना
”सूर्य्यसिद्धान्ते ।“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिता
”मध्यमग्रहभुक्तिर्ज्योतिर्गणना प्रसिद्धा
*
नाक्षत्रमासप्रयोजनं विष्णुधर्म्मोत्तरे ।“नक्षत्रसत्राण्ययनानि चेन्दो-र्म्मासेन कुर्य्याद्भगणात्मकेन ।”नक्षत्रसत्राणि माससाध्ययागविशेषरूपाणियाज्ञिकप्रसिद्धानि इन्दोरयनानि सोमाय-नाख्यसत्राणि इति समयप्रकाशः
एवं जन्म-नक्षत्रे शनिभौमवारे फलं नाक्षत्रमासेन योग्य-त्वात् यथा, मलमासतत्त्वे ।“जन्मन्यृक्षे यदि स्यातां वारौ भौमशनैश्चरौ ।स मासः कल्मषो नाम मनोदुःखप्रदायकः
”मलमासविवरणं मलमासशब्दे द्रष्टव्यम्
*
अथ मासकृत्यम् ।“आषाढशुक्लैकादश्यां कुर्य्यात् स्वापं महोत्-सवम् ।आषाढे रथं कुर्य्यात् श्रावणे श्रवणाविधिम्
भाद्रे जन्मदिवसे उपवासपरो भवेत् ।प्रसुप्तञ्च पारिवर्त्तमाश्विने मासि कारयेत्
उत्थानं श्रीहरेः कुर्य्यादन्यथा विष्णुद्रोहकृत् ।शुभे चैवाश्विने मासि महामायाञ्च पूजयेत्
कार्त्तिके मासि यत् कृत्यं शृणु देवि वरानने ! ।सप्तवर्त्त्याः प्रमाणेन दीपः स्याच्चतुरङ्गुलः
पक्षान्ते प्रकर्त्तव्या दीपमाला बलिः शुभा ।मार्गशीर्षे सिते पक्षे षष्ठीञ्च सितवस्त्रकैः
पूजयेज्जगदीशञ्च तूलवस्त्रैर्विशेषतः ।पौषे पुण्याभिषेकञ्च वर्ज्जयेच्चन्दनं तथा
संक्रान्त्यां माघमासे साधिवासिततण्डुलान् ।निवेद्य विष्णवे भक्त्या इमं मन्त्रमुदीरयेत्
जीवनं सर्व्वभूतानां जनकस्त्वं जगद्गुरो ! ।तन्मायालीनता प्राप्ता त्वयैव जनिता प्रभो !
कर्पूराकृतिद्रव्याणि घृताक्तानि निवेदयेत् ।ब्राह्मणान् भोजयेद्भक्त्या देवदेवपुरःस्थितान्
अभ्यर्च्च्य भगवद्भक्त्या द्विजांश्च भगवद्धिया ।एकस्मिन् भोजिते भक्ते कोटिर्भवति भक्तितः
विप्रभोजनमात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम् ।पञ्चम्यां शुक्लपक्षे तु स्नापयित्वा केशवम्
पूजयेद्भगवद्भक्त्या चूतपल्लवसम्मितैः
फल्गुचूर्णैश्च विविधैर्वासितैः पटवासितम् ।काननं रमणीयञ्च प्रदीप्तदीपदीपितम्
द्राक्षेक्षुरम्भाजम्बीरनागरङ्गकपूगकम् ।नारिकेलञ्च धात्री वंशतालहरीतकी
अन्यैश्च वृक्षषण्डैश्च सर्व्वर्त्तकुसुमाचितम् ।पुष्पैश्च विविधैश्चैव फलपुष्पसमन्वितम्
वितानैः कुसुमोद्यानैर्वारिपूर्णघटैस्तथा ।चूतशाखोपशाखाभिः शोभितं छत्रचामरैः
विशेषतः कलियुगे दोलोत्सवो विधीयते ।फाल्गुने चतुर्द्दश्यामष्टमे यामसंज्ञके
अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ ।पूजयेद्बिधिवद्भक्त्या फल्गुचूर्णैश्चतुर्व्विधैः
सितरक्तैर्गौरपीतैः कर्पूरादिविमिश्रितैः ।हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनोहरैः
अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम्
एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ।पञ्चाहानि त्र्यहाणि स्युर्द्दोलोत्सवो विधीयते
दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः ।दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः
निक्षिप्य जलमात्रे तु मासे माधवसंज्ञिते ।सौवर्णपात्रे ताम्रे वा रौप्ये वा मृण्मयेऽपि वा
तोयस्थं योऽर्च्चयेद्देवं शालग्रामसमुद्भवम् ।प्रत्यहं मां महाभागे ! तस्य पुण्यं गण्यते
दमनारोपणं कृत्वा श्रीविष्णौ समर्पयेत् ।वैशाख्यां श्रावणे भाद्रे कर्त्तव्यञ्च तदर्पणम्
वैशाखे तृतीयायां जलमध्ये विशेषतः ।अथवा मण्डपे कुर्य्यात् मण्डले वा बृहद्ध्वजे
सुगन्धचन्दनेनाङ्गसुपुष्टाङ्गो दिने दिने ।यथा प्रयत्नतः कार्य्यः कृशाङ्गो नैव पूजितः
चन्दनागुरुकस्तूरीकुष्ठं कुङ्कुमरोचना ।जटामांसी वचा चैव विष्णोर्गन्धाष्टकं तथा ।एतैर्गन्धयुतैश्चापि हरेरङ्गानि लेपयेत्
घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।अथवा केशरैर्योज्यं हरिचन्दनमुच्यते
अस्मिन् काले कृष्णभक्त्या ये प्रपश्यन्ति मानवाः
तेषां पुनरावृत्तिः कल्पकोटिशतैरपि
सुगन्धिमिश्रितैस्तोयैः स्नापयित्वा जगद्गुरुम् ।अथवा पुष्पमध्ये स्थापयेज्जगदीश्वरम्
बृन्दावनं तत्र कृत्वा उपस्कृतफलानि ।विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः
नारिकेलफलं नीरं कोषञ्चोद्धृत्य दापयेत् ।कण्टाफलञ्च पनसं कोषमुद्धृत्य दीयते
यथा पचेत्तथा दद्याद्यथाशक्ति नियोगतः ।दध्ना विमिश्रितञ्चान्नं घृतेनाप्लुत्य दापयेत्
पाचितं पिष्टकं धातुरष्टादश घृतेन ।तिलैश्च तिलसंमिश्रैः फलं शुद्धञ्च दापयेत्
यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् ।दत्त्वा नैवेद्यवस्त्रादीनाददीत कथञ्चन ।त्यक्तव्यं विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः
इति ते कथितं किञ्चित् समासेन महेश्वरि ! ।गोप्तव्यञ्च प्रयत्नेन स्वयोनिरिव पार्व्वति !
”इति पाद्मे पातालखण्डे १२ अध्यायः