| YouTube Channel

माषभक्तबलिः (mASabhaktabaliH)

 
शब्दकल्पद्रुमः
Sanskrit
माषभक्तबलिः,
पुं,
(माषश्च भक्तञ्च तद्युक्तोबलिः ।) माषतण्डुलदधिमिश्रितपूजोपहार-विशेषः अत्र केचित् हरिद्राघृतमध्वपिमिश्रयन्ति यथा एष माषभक्तबलिः ।“ओँ जय त्वं कालि ! सर्व्वेशे सर्व्वभूतसमावृते ।रक्ष मां निजभूतेभ्यो बलिं गृह्ण शिवप्रिये !
”ओँ काल्यै नमः प्रार्थनामन्त्रो यथा, --“ओँमातर्मातर्व्वरे दुर्गे सर्व्वकामार्थसाधिनि ! ।अनेन बलिदानेन सर्ब्बान् कामान् प्रयच्छ मे
”इति कृत्यतत्त्वम्
भूतेभ्योऽप्ययं बलिर्देयः