| YouTube Channel

माशब्दिकः (mAzabdikaH)

 
शब्दकल्पद्रुमः
Sanskrit
माशब्दिकः, त्रि, (मा इत्याहेति माशब्द +“प्राग्वहतेष्ठक् ।” इत्यत्र ।“तदाहेति माशब्दादिभ्य उपसंख्यानम् ।”इति वार्त्तिकात् ठक् ।) निषेधकर्त्ता तत्-पर्य्यायः प्रतिषेद्धा इति त्रिकाण्ड-शेषः