| YouTube Channel

मालिः (mAliH)

 
शब्दकल्पद्रुमः
Sanskrit
मालिः,
पुं,
सुकेशराक्षसपुत्त्रः यथा, --“ग्रामणीर्नाम गन्धर्व्वो विश्वावसुसमप्रभः ।तस्य देववती नाम द्बितीया श्रीरिवात्मजा
त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।तां सुकेशाय धर्म्मात्मा ददौ रक्षःश्रियंयथा
वरदानकृतैश्वर्य्यं सा तं प्राप्य पतिं प्रियम् ।आसीद्देववती तुष्टा धनं प्राप्येव निर्द्धनः
तया सह सन्तुष्टो रराज रजनीचरः ।ततः काले सुकेशस्तु जनयामास राघव !
त्रीन् पुत्त्रान् जनयामास त्रेताग्निसमविग्र-हान् ।माल्यवन्तं सुमालिञ्च मालिञ्च बलिनांवरम्
”इति रामायणे उत्तरकाण्डे सर्गः