| YouTube Channel

मालकौशः (mAlakauzaH)

 
Apte
English
मालकौशः [mālakauśḥ],
N.
of a Rāga or musical mode.
Apte 1890
English
मालकौशः N. of a Rāga or musical mode.
शब्दकल्पद्रुमः
Sanskrit
मालकौशः,
पुं,
(मालस्य हरेः कोशात् कण्ठा-न्निर्गत इति अण् ।) रागविशेषः तस्यनामान्तरं कौशिकः हनूमन्मते षड्-रागाणां मध्ये द्बितीयरागः हरस्य हरेर्वाकण्ठान्निर्गतः अस्य जातिः सम्पूर्णा तत्र सप्त-स्वरक्रमः नि अस्य गृहंषड्जस्वरः शरदृतौ रात्रिशेषे गानसमयः ।रागमालायामस्य स्वरूपम् पाटलवर्णपुरुषः ।नीलपरिच्छदः यष्टिहस्तः यौवनमदमत्तःस्त्रीभिः सह हास्यकौतुकान्वितः शत्रुमस्तक-माल्यगलोऽथवा बृहन्मुक्तामाल्यगलः अस्यरागिण्यः पञ्च यथा टोडी गौरी गुण-करी खम्भावती कोकभा अस्याष्टौपुत्त्रा यथा मारुः मेवाडः वडहंसः ३प्रबलः चन्द्रकः नन्दः भ्रमरः खुखरः ८अत्र मिष्टाङ्गोऽपि पाठः भरतमते तस्यरागिण्यः पञ्च यथा गौरी दयावती २देवदाली खम्भावती कोकभा तन्मतेअष्टौ पुत्त्रा यथा गान्धारः शुद्धः मकरः ३त्रिञ्छनः सहानः शक्तबल्लभः माली-गौरः कामोदः अष्टपुत्त्रभार्य्या यथा ।धनाश्रीः मालश्रीः जयतश्रीः सुघोरायी ४दुर्गा गान्धारी भीमपलाशी कामोदी८ इति सङ्गीतशास्त्रम्