| YouTube Channel

मालं (mAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
मालं,
क्ली,
(माति मानहेतुर्भवतीति मा +“ऋज्रेन्द्राग्रवज्रेत्यादि ।” उणा० २८ इतिरण् पृषोदरादित्वाद्रस्य लत्वम् ।) क्षेत्रम् ।इति मेदिनी
ले, ४५ (यथा, मेघदूते १६ ।“सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालंकिञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण
”)कपटम् वनम् इति हेमचन्द्रः
(हरि-तालम् यथा, --“हरितालं तालमालं मालं शैलूषभूषणम् ।पिञ्जकं रोमहरणं तालकं पातमित्यपि
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाद्य-धिकारे ।)