| YouTube Channel

मार्द्दवं (mArddavaM)

 
शब्दकल्पद्रुमः
Sanskrit
मार्द्दवं,
क्ली,
(मृदोर्भाव इति मृदु + “पृथ्वादिभ्यइमणिज् वा ।” १२२ इत्यत्र “वावचन-मणादेः समावेशार्थम् ।” इति काशिको-क्तेरण् ।) परदुःखप्रदर्शनात् पीडाबुद्धिः ।मृदुता यथा, --“मार्द्दवं कोमलस्यापि संस्पर्शासहतोच्यते ।उत्तमं मध्यमं प्रोक्तं कनिष्ठञ्चेति तत्त्रिधा
”उत्तमं यथा, --“अभिनवमालिकामियं साशय-नववंशिराधिका विशिष्ये ।न कुसुमपटलं दरापि जग्लौतदनुभवात्तनुरेव सव्रणासीत्
”मध्यमं यथा, --“चित्रं धनिष्ठे तनुवाससोऽपिचीनस्य पीनस्तनि ! सङ्गमेन ।लिप्तेन तल्लोहितचन्दनेनमूर्त्तिर्दिदूना सखि ! लोहितासीत्
कनिष्ठं यथा, --रससुधाकरे आमोदमामोदन-मादधानं निलीननीलालकचञ्चरीकम् ।क्षणेन पद्मामुखपद्ममासीत्त्विषा रवेः कोमलयापि ताम्रम्
”इत्युज्ज्वलनीलमणिः
(अकाठिन्यम् यथा, रघौ ४३ ।“विललाप सवाष्पगद्गदंसहजामप्यपहाय धीरताम् ।अभितप्तमयोऽपि मार्द्दवंभजते कैव कथा शरीरिषु
”)