| YouTube Channel

मार्त्तण्डः (mArttaNDaH)

 
Wordnet
Sanskrit
Synonyms:
सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः
noun
हिन्दूनां धर्मग्रन्थेषु वर्णिता एका देवता।
"वेदेषु सूर्यस्य पूजायाः वारंवारं विधानम् अस्ति"।"
शब्दकल्पद्रुमः
Sanskrit
मार्त्तण्डः,
पुं,
(मृतश्चासौ अण्डश्चेति मृताण्डेभवतीति मृताण्ड + “तत्र भवः ।” ।५३ इति अण् ।) सूर्य्यः (तन्निरुक्तिश्च ।यथा, --“अनिष्पन्नेषु गात्रेषु पुत्त्रं दृष्ट्वा पिताब्रवीत् ।आर्त्तस्त्वं भव माण्डेति मार्त्तण्डस्तेन स्मृतः
”यथा, मार्कण्डेये ७७ ।“मार्त्तण्डस्य रवेर्भार्य्या तनया विश्वकर्म्मणः ।संज्ञा नाम महाभाग ! तस्यां भानुरजीजनत्
”अर्कवृक्षः इत्यमरः
शूकरः इति मेदिनी ।ते, ३५
मार्त्तण्डोत्पत्तिर्यथा, --मार्कण्डेय उवाच ।“एवं सा नियता देवी चक्रे स्तोत्रमहनिशम् ।निराहारा विवस्वन्तमारिराधयिषुर्मुने !
ततः कालेन महता भगवांस्तपनो मुने ! ।प्रत्यक्षतामगात्तस्या दाक्षायण्या द्विजोत्तम !
सा ददर्श महाकूटं तेजसोऽम्बरसंस्थितम् ।भूमौ संस्थितं भास्वज्ज्वालामालातिदुर्द्दृशम्
तञ्च दृष्ट्वा ततो देवी साध्वसं परमं गता ।जगादाद्य ! प्रसीदेति त्वां पश्यामि गोपते !
यथा दृष्टवती पूर्व्वमम्बरस्थं सुदुर्दृशम् ।संघातं तेजसस्तस्मादिह पश्यामि भूतले
प्रसादं कुरु पश्येयं यद्रूपं ते प्रभाकर ! ।भक्तानुकम्पन ! विभो ! भक्ताहं पाहि मेसुतान्
”श्रीमार्कण्डेय उवाच ।“ततः तेजसस्तस्मादाविर्भूतो विभावसुः ।अदृश्यत तदादित्यस्तप्तताम्रोपमप्रभः
अथ तां प्रागतां देवीं तस्य सन्दर्शनान्मुने ! ।प्राह भास्वान् वृणुष्वेष्टं वरं मत्तो यमिच्छसि
प्रणता शिरसा सा जानुपीडितमेदिनी ।प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम्
देव ! प्रसीद पुत्त्राणां हृतं त्रिभुवनं मम ।यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ! ।अंशेन तेषां भ्रातृत्वं गत्वा नाशय तद्रिपून्
यथा मे तनया भूयो यज्ञभागभुजः प्रभो ! ।भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर !
तथानुकम्पां पुत्त्राणां सुप्रसन्नो रवे ! मम ।कुरु प्रसन्नार्त्तिहर ! स्थितिकर्त्ता त्वमद्य मे
”मार्कण्डेय उवाच ।“ततस्तामाह भगवान् भास्करो वारितस्करः ।प्रणतामदितिं विप्र ! प्रसादसुमुखो विभुः
सहस्रांशेन ते गर्भे सम्भूयाहमशेषतः ।तत्पुत्त्रशत्रूनदिते ! नाशयाम्याशु निर्वृता
इत्युक्त्रा भगवान् भास्वानन्तर्द्धानमुपागमत् ।निवृत्ता सापि तपसः संप्राप्ताखिलवाञ्छिता
ततो रश्मिसहस्रान्तः सुषुम्नाख्यो रवेः करः ।विप्रावतारं संचक्रे देवमातुरथोदरे
कृच्छ्रचान्द्रायणादीनि सा चक्रे सुसमाहिता ।शुचिः सन्धारयाम्येनं दिव्यं गर्भमिति द्बिज !
ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ।किं मारयसि गर्भाण्डमिति नित्योपवासिनी
सा तं प्राह गर्भाण्डमेतत् पश्येति कोपना ।न मारितं विपक्षाणां मृत्यवे यद्भविष्यति
इत्युक्त्रा तं तदा गर्भमुत्ससर्ज्ज सुरारणिः ।जाज्वल्यमानं तेजोभिः प्रत्युवाच कोपिता ।तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्च्चसम् ।तुष्टाव प्रणतो भूत्वा ऋग्भिराद्याभिरादरात्
संस्तूयमानः तदा गर्भाण्डात् प्रकटोऽभवत् ।पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः
अथान्तरीक्षादाभाष्य कश्यपं मुनिसत्तमम् ।सतोयमेघगम्भीरा वागुवाचाशरीरिणी
मारितञ्च यतः प्रोक्तमेतदण्डं त्वयादितिम्
तस्मान्मुने ! सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति
सूर्य्याधिकारञ्च विभुर्जगत्येष करिष्यति ।हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन्
देवा निशम्येति वचो गगनात् समुपागतम् ।प्रहर्षमतुलं याता दानवाश्च हतौजसः
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ।सह देवैर्मुदायुक्तो दानवाश्च तमाययुः
तेषां युद्धमभूद्घोरं देवानामसुरैः सह ।शस्त्रास्त्रदीप्तिसन्दीप्तसमस्तभुवनान्तरम्
तस्मिन् युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ।तेजस्रा दह्यमानास्तु भस्मीभूता महासुराः
ततः प्रहर्षमतुलं प्रापुः सर्व्वे दिवौकसः
तुष्टवुस्तेजसां योनिं मार्त्तण्डमदितिन्तथा
स्वाधिकारं ततः प्रापुर्यज्ञभागांश्च पूर्व्ववत् ।भगवानपि मार्त्तण्डः स्वाधिकारमथाकरोत्
कदम्बपुष्पवद्भास्वानधश्चोर्द्ध्वञ्च रश्मिभिः ।वृत्तोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः
”इति मार्कण्डेयपुराणे सूर्य्यमाहात्म्ये मार्त्त-ण्डोत्पत्तिनामाध्यायः