मार्ज्जनं (mArjjanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमार्ज्जनं, (मार्ज्ज्यते इति । मार्ज्ज् + भावेल्युट् ।) प्रोञ्छनादिना अङ्गनिर्म्मलीकरणम् ।माजा इति भाषा । तत्पर्य्यायः । मार्ष्टिः २मार्ष्टी ३ मार्ज्जना ४ मृजा ५ । इति शब्द-रत्नावली ॥
मार्ज्जः ६ मार्ज्जा ७ । इत्यमर-टीकायां भरतः ॥
(यथा, श्रीमद्भागवते । ९ ।४ । १८ ।“स वै मनः कृष्णपदारबिन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने ।करौ हरेर्मन्दिरमार्ज्जनादिषुश्रुतिं चकाराच्युतसत्कथोदये ॥
”)स्नानकाले शरीरमार्ज्जनगुणाः ।“दौर्गन्ध्यं गौरवं कण्डूं कच्छुं मलमरोचकम् ।स्वेदं वीभत्सतां हन्ति शरीरपरिमार्ज्जनम् ॥
इति राजवल्लभः ॥
देवीगृहमार्ज्जनफलं यथा, --“देव्या गृहन्तु यः शुक्र ! संमार्ज्जयति नित्यशः ।स भवेद्बलवान् सौख्यसर्व्वसम्पत्तिसंयुतः ॥
देव्या गृहन्तु यः शुक्र ! गोमयेनानुलेपयेत् ।स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्तरम् ।स लभेदीप्सितान् कामान् देव्या लोकञ्चगच्छति ॥
”इति देवीपुराणे ४२ अध्यायः ॥
अथ भगवन्मन्दिरमार्जनमाहात्म्यम् ।“नरसिंहगृहे नित्यं यः संमार्जनमाचरेत् ।समस्तपापनिर्मुक्तो विष्णुलोके स मोदते ॥
”इति नृसिंहपुराणम् ॥
“संमार्जनन्तु यः कुर्य्यात् पुरुषः केशवालये ।रजस्तमोभ्यां निर्मुक्तः स भवेन्नात्र संशयः ॥
पांशूनां यावतां राजन् ! कुर्य्यात् संमार्जनंनरः ।तावन्त्यब्दानि स सुखी नाकमासाद्य मोदते ॥
”इति विष्णुधर्म्मोत्तरम् ॥
“यावत्कानि प्रवाहाणि भूमिसंमार्जने ददुः ।तावद्बर्षसहस्राणि शाकद्बीपे महीयते ॥
जायते मम भक्तश्च सर्व्वधर्म्मसमन्वितः ।शुचिर्भागवतः शुद्धो ह्यपराधविवर्जितः ॥
ततो भुक्त्वा सर्व्वभोगान् तीर्त्वा संसारसागरम् ।शाकद्वीपात् परिभ्रष्टः स्वर्गलोकं स गच्छति ॥
नन्दनं वनमाश्रित्य मोदते चाप्सरैः सह ।नन्दनाच्च परिभ्रष्टो मम कर्म्मव्यवस्थितः ।सर्व्वसङ्गान् परित्यज्य मम लोकन्तु गच्छति ॥
”इति वराहपुराणम् ॥
* ॥
स्नानविशेषः । यथा । आतुराणान्तु ।“अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तुकर्म्मिणाम् ।आर्द्रेण वाससा वापि मार्ज्जनं दैहिकं विदुः ॥
”इति जावालवचनाच्छिरो विहाय गात्रप्रक्षा-लनं तदशक्तौ सर्व्वगात्रमार्ज्जनं आर्द्रेण वाससाकुर्य्यात् । इत्याह्निकाचारतत्त्वम् ॥
* ॥
वैदिक-सन्ध्योपासनान्तर्गतमार्जनं यथा । छन्दोगपरि-शिष्टम् ।“शिरसो मार्जनं कुर्य्यात् कुशैः सोदक-बिन्दुभिः ।प्रणवो भूर्भुवः स्वश्च गायत्त्री च तृतीयिका ॥
अब्दैवत्यं त्र्यृचञ्चैव चतुर्थमिति मार्जनम् ॥
”ओङ्कारो भूरादिव्याहृतित्रयं तृतीया च गायत्त्रीचतुर्थमापोहिष्ठेति ऋक्त्रयम् । इतीदं मार्जनंमार्जनक्रियाकरणमित्यर्थः । रामायणम् ।“ऋगन्ते मार्जनं कुर्य्यात् पादान्ते वा समाहितः ।आपोहिष्ठेत्यृचा कार्य्यं मार्जनन्तु कुशोदकैः ॥
प्रतिप्रणवसंयुक्तं क्षिपेन्मुर्द्ध्नि पदे पदे ।त्र्यृचस्यान्तेऽथवा कुर्य्यादृषीणां मतमीदृशम् ॥
आपोहिष्ठेतिसूक्तस्य सिन्धुद्बीप ऋषिः स्मृतः ।आपो वै देवता च्छन्दो गायत्त्री मार्जनंस्मृतम् ॥
”इत्याह्निकाचारतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
