| YouTube Channel

मार्गशीर्षः (mArgazIrSaH)

 
Hindi
Hindi
नवंबर - दिसंबर के महीने
Apte Hindi
Hindi
मार्गशीर्षः
पुं*
- मृगशीर्ष + अण्
(नवंबर और दिसंबर में पड़ने वाला) हिन्दुओं का नवां महीना जिसमें कि पूर्णचन्द्रमा मृगशिरस् नक्षत्र में विद्यमान हैं।
Wordnet
Sanskrit
Synonyms:
मार्गशीर्षः, अग्रहायणः, सहाः, मार्गः, आग्रहायणिकः, मार्गशिरः, सहः
noun
मासभेदः- चान्द्रसंवत्सरे द्वादशमासान्तर्गतनवमः मासः।
"गीतायाः भ्राता मार्गशीर्षे अजायत।"
शब्दकल्पद्रुमः
Sanskrit
मार्गशीर्षः,
पुं,
(मार्गशीर्षी + अण् ।) अग्र-हायणमासः मृगशीर्षेण युक्ता पौर्णमासीमार्गशीर्षी सास्मिन् मासे भवति मार्गशीर्षःष्णः इत्यमरटीकायां भरतः
तत्पर्य्यायः ।सहाः मार्गः आग्रहायणिकः इत्य-मरः १४
मार्गशिरः सहः ।इति शब्दरत्नावली
वृश्चिकस्थरविप्रारब्ध-शुक्लप्रतिपदादिदर्शान्तोऽयं मुख्यचान्द्रः एता-दृशमुख्यचान्द्रमासीयपौर्णमास्यन्तः अयं गौण-चान्द्रः वृश्चिकराशिरविकोऽयं सौरः इतिस्मृतिः
*
तत्र जातफलम् ।“यस्य प्रसूतिः खलु मार्गमासेतीर्थे प्रवासे सततं मतिः स्यात् ।परोपकारी धृतसाधुवृत्तिःसद्वृत्तियुक्तो ललनाभिलाषी
”इति कोष्ठीप्रदीपः
*
(तथास्य विषयः
कार्त्तिकमार्गशीर्षौ शरत् ।इति सुशुते सूत्रस्थाने षष्ठेऽध्याये
)अथ मार्गशीर्षकृत्यम् ।आश्विनशुक्लपक्षे नवान्नश्राद्धाकरणे मार्ग-शीर्षस्य विंशतिदण्डाधिकत्रयोविंशतिदिनाभ्य-न्तरे शुक्लपक्षे तत् श्राद्धं कर्त्तव्यम् तत्र मार्ग-शीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रयेतरेषुकुजशनिशुक्रवारेतरेषु नन्दारिक्तात्रयोदशीतर-तिथिषु जन्माष्टमचन्द्रजन्मतिथिजन्मनक्षत्रत्रय-पञ्चमतारात्रयेतरेषु पूर्व्वात्रयमघाभरण्यश्लेषा-र्द्रेतरेषु नक्षत्रेषु श्राद्धं तच्छेषभोजनञ्च कुर्य्यात् ।श्राद्धानधिकारिणा तु प्रागुक्तकाले देवादिभ्योनवान्नं दत्त्वा भोक्तव्यम् किन्तु अश्लेषाकृत्तिका-ज्येष्ठामूलापूर्व्वभाद्रपदकेषु अपि नवान्नभोजनंन कर्त्तव्यम् चन्दताराद्यशुद्धौ प्रतीकारमाहदेवलः ।“कर्म्म कुर्य्यात् फलावाप्त्यै चन्द्रादिशोभने बुधः ।सुस्थकाले त्विदं सर्व्वं नार्त्तः कालमपेक्षते
चन्द्रे शङ्खं लवणञ्च तारेतिथावभद्रे सिततण्डुलांश्च ।धान्यञ्च दद्यात् करणर्क्षवारेयोगे तिलान् हेममणिञ्च लग्ने
राजमार्त्तण्डे ताराभेदाल्लवणपरिमाणमाह ।“एकत्रिपञ्चसप्त द्बिजाय दद्यात् पलानिलवणस्य ।क्रमशो जन्मविपत्प्रत्यरिमरणाख्यतारासु
पलन्तु लौकिकैर्मानैः साष्टरत्तिद्विमाषकम् ।तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम्
तत एवं दध्याज्यसंयुक्तं नवं विप्राभिमन्त्रितम् ।मन्त्रानादेशे गायत्त्रीति गायत्त्र्यभिमन्त्रितम्
नवमन्नं ब्राह्मणानुज्ञां गृहीत्वा प्राश्नीयात् ।नूतनधान्यासम्भवे पुरातनेनापि श्राद्धं कर्त्तव्यम् ।वृश्चिके शुक्लपक्षे तदकरणे हरिशयनात् पूर्व्वंमीनधनुस्थरवीतरत्र माघादौ कर्त्तव्यम्
*
वृश्चिकस्थरवौ शुक्लचतुर्द्दश्यां सौभाग्यकामःपाषाणाकारपिष्टकैर्देवीं पूजयेत् तदपि भक्षये-न्नक्तम्
*
अग्रहायण्यां पौर्णमास्यां पार्व्वण-विधिना श्राद्धमावश्यकम्
*
भविष्यपुराणे ।“रोहिण्या प्रतिपद्युक्ता मार्गे मासि सितेतरा ।गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा
”इति कृत्यतत्त्वम्
(स्त्रियां आग्रहायणी पूर्णिमा यथा, महा-भारते ९३ २६ ।“मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः
”)