| YouTube Channel

मार्गपाली (mArgapAlI)

 
Monier Williams Cologne
English
मार्ग—पाली
f.
‘road-protectress’,
N.
of a goddess,
PadmaP.
शब्दकल्पद्रुमः
Sanskrit
मार्गपाली,
स्त्री,
(मार्गं पालयति हिंस्रेभ्योरक्षतीति पाल + अच् गौरादित्वात् ङीष् ।)स्तम्भः यथा, “ततोऽपराह्नसमये पूर्व्वस्यां दिशि नारद ! ।मार्गपालीं प्रबध्नीयाद्दुर्गस्तम्भे पादपे
कुशकाशमयैर्दिव्यां संस्कारैर्ब्बहुभिर्मुदा ।भूषयित्वा गजानश्वानङ्कुशग्राहिसंयुतान्
गोवृषान् महिषांश्चैव घण्टाभरणभूषितान् ।भेरीमृदङ्गपटहवादित्रध्वनिनादितान् ।तस्याः स्थाने नयेत् सायं शान्तिपाठादि-नन्दितः
मार्गपालि नमस्तुभ्यं सर्व्वानन्दप्रवर्षिके ।तले तव सुखेनाश्वा गजा गावः प्रयान्तु मे
राजानो राजपुत्त्राश्च ब्राह्मणाः शूद्रजातयः ।मार्गपालीं समालिख्य वार्त्ताः स्युश्च सदैव हि
ततो गावश्च संपूज्या गन्धपुष्पादिभिः क्रमात् ।आत्मनः श्रेयसे भूप इति पूजां करोति हि
अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः ।गावो मे सर्व्वतः सन्तु गवां मध्ये वसाम्यहम्
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ।क्षीरं वहति यज्ञार्थे मम पापं व्यपोहतु
या कामधेनुर्भवने विष्णो-र्या कामधेनुर्यमदग्निगेहे ।या सौरभेयी तु वशिष्ठगेहेसा कामधेनुर्वरदा ममास्तु
कृत्वैतत् सर्व्वमानन्दाद्रात्रौ दैत्यपतेर्बलेः ।पूजां कृत्वा ततः पश्चात् सम्यग्दूतं समारभेत्
”इति पाद्मे उत्तरखण्डे कार्त्तिकमाहात्म्ये१२४ अध्यायः