| YouTube Channel

मार्गकः-र्गिका (mArgakaH-rgikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मार्ग संस्कारगत्योः”@} 2 3 चुरादिषु ‘व्रज मार्ग संस्कारगत्योः’ इति पठ्यते।
तत्र ‘मार्ग’ इति पृथग्धातु- रिति बहूनां पक्षः।
तन्मतानुसारेणास्माभिरयमत्र लिख्यते।]] 4 ‘अन्वेषणेऽर्थे मृगयेत णौ यो मार्गेर्भवेन्मार्गति मार्गयेच्च।।’ 5 इति देवः।
मार्गकः-र्गिका, मिमार्गयिषकः-षिका
मार्गयिता-त्री, मिमार्गयिषिता-त्री, इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगर्जयतिवत् 6 ज्ञेयानि।
यति-- 7 मार्ग्यम्।
प्रासङ्गिक्यः
01
=>
(१२४७)
02
=>
(१०-चुरादिः-१६१८। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
[पृष्ठम्१०१९+ २६]
05
=>
(श्लो। ४४)
06
=>
(३७८)
07
=>
[[आ। ‘सुव्राजितेन मनसा परिमार्ग्य एषां तोषं व्यशुल्कयदसौ नयनप्रचम्पैः’।। धा। का। ३। २३।]]
1 {@“मार्ग अन्वेषणे”@} 2 ‘अन्वेषणेऽर्थे मृगयेत णौ यो मार्गेर्भवेन्मार्गति मार्गयेच्च।।’ 3 इति देवः।
आधृषीयत्वादस्य धातोर्णिज्विकल्पः।
णिजभावपक्षे धातोरस्य भौवादिकत्वमिति ज्ञेयम्।
मार्गकः-र्गिका, मिमार्गयिषकः-षिका, मार्गकः-र्गिका, मिमार्गिषकः- षिका, मामार्गकः-र्गिका
मार्गयिता-त्री, मिमार्गयिषिता-त्री, मार्गिता-त्री, मिमार्गिषिता-त्री, मामार्गिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- चर्पयतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२४८)
02
=>
(१०-चुरादिः-१८४७। सक। सेट्। उभ। आधृषीयः)
03
=>
(श्लो। ४४)
04
=>
(५५४)