| YouTube Channel

मार्कण्डेयः (mArkaNDeyaH)

 
Apte Hindi
Hindi
मार्कण्डेयः
पुं*
- मृकण्डु + ढक्
एक प्राचीन ऋषि का नाम
शब्दकल्पद्रुमः
Sanskrit
मार्कण्डेयः,
पुं,
(मृकण्डोरपत्यं मृकण्डु + शुभ्रा-दिभ्यश्च ।” १२३ इति ढक् ।) मृकण्डु-मुनिपुत्त्रः जन्मतिथ्यादौ पूजायां तस्य ध्यानंयथा, “द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् ।मार्कण्डेयं नरो भक्त्या पूजयेच्च चिरायुषम्
”तस्य प्रार्थनामन्त्रः ।“चिरजीवी यथा त्वं भो भविष्यामि तथामुने ! ।रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा
मार्कण्डेय महाभाग ! सप्तकल्पान्तजीवन ! ।आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो भव
”इति तिथ्यादितत्त्वम्
तस्योत्पत्त्यादिर्यथा, मार्कण्डेय उवाच ।“देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।श्रियञ्च देवदेवस्य पत्नी नारायणस्य या
आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः ।भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ
प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ।मनस्विन्यामहं तस्मात् पुत्त्रो वेदशिरा मम
धूम्रवत्यां समभवत् प्राणस्यापि निबोध मे
”इति श्रीमार्कण्डेयपुराणे रुद्रसर्गाध्यायः
अपि ।पुलस्त्य उवाच ।“अथ ते संप्रवक्ष्यामि मार्कण्डोत्पत्तिमुत्तमाम् ।पुरा कल्पे मुनिः पूर्व्वं मृकण्डुर्नाम विशुतः
भृगोः पुत्त्रो महाभागः सभार्य्यस्तप्तवांस्तपः ।तस्य पुत्त्रस्तदा जातो वसतस्तु वनान्तरे
पञ्चवर्षको जातो बाल एव गुणान्वितः ।ज्ञानिना तदा दृष्टो भ्रमित्वा लघुप्राङ्गणे
स्थित्वा सुचिरं कालं जीवनञ्च ततो दितम् ।वीक्ष्य चिन्तापरो ज्ञानी किं वर्षो बालकस्तव
दितं खण्डितम् ।संख्यया चाष्टवर्षाणि जातानीति न्यवेदयत् ।मृकण्डुनैव मुक्तस्तु ज्ञानी वाक्यमब्रवीत्
मासमायुश्च पुत्त्रस्य तेऽवशिष्टं मुनीश्वर ! ।नैव शोकस्त्वया कार्य्यः सत्यमेतदुदाहृतम्
एतत् श्रुत्वा वचो भीष्म ! ज्ञानिना यदुदाहृतम् ।व्रतोपनयनं चक्रे बालकस्य पिता तदा
आह चैनं पिता पुत्त्रमृषिं त्वमभिवादय ।एवमुक्तः वै पित्रा ऋषिं भक्त्या ननाम सः
एतस्मिन्नन्तरे तत्र प्रदीप्ताः पावकोपमाः ।मार्गेणापि समायातास्तेन सप्तर्षयोऽमलाः
बालेन तेन दृष्टास्ते सर्व्वे समभिवादिताः ।आयुष्मान् भव तैरुक्तः जहौ दण्डमेखलाम्
उक्तास्ते पुनर्व्वाणीं पश्यन्तः क्षीणजीवितम् ।दिनानि पञ्च ते चायुर्ज्ञात्वा भीताभवन् पुनः
तमुत्क्षिप्य ब्राह्मणा वै गतास्ते ब्रह्मणोऽन्तिकम् ।प्रतिमुच्य तं बालं प्रणिपेतुः पितामहम्
आयुष्मान् भव इत्याह तेन ब्रह्माभिवादितः ।चिरायुर्ब्रह्मणा बालः प्रोक्तः ऋषिसन्निधौ
ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात् ।पितामहस्तु सप्तर्षीन् दृष्ट्वा प्रोवाच विस्मितान्
कार्य्येण येन वा याताः कोऽयं बालो निवेद्यताम् ।ततः सप्तर्षयो राजन् ! सर्व्वं तस्मै न्यवेदयन्
भृगोः सूनुर्मृकण्डुस्तु क्षीणायुस्तस्य बालकः ।अल्पायुषस्ततस्तस्य बद्धास्तेनास्य मेखलाः
यज्ञोपवीतं दण्डञ्च दत्त्वा तेन प्रबोधितः ।यं कञ्चित् पश्यसे लोकं भ्रमन्तं भूतले जनम्
तस्याभिवादनं कार्य्यमेवमाह पितामहः ।तावद्बयमनेनाथ क्षितौ दृष्टाः परिभ्रमन्
एकत्वमार्षम् ।तीर्थयात्राप्रसङ्गेन दैवयोगात् पितामह ! ।चिरायुर्भव वै विप्र ! बालेत्यस्माभिरीरितम्
कथं चिरायुः स्याद्बिप्रबालकः साम्प्रतं प्रभो ! ।कथं नानृतिनो देव ! भवामो भवता वयम्
एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः ।ऋतवाचो भविष्यामः सर्व्वे एव वयं स्थिताः
मत्समश्चायुषा बालो मार्कण्डेयो भविष्यति ।ऋषीणां मुख्यतश्चासौ मत्सहायो भविष्यति ।कल्पस्यादौ तथा चान्ते वृतो मुनिभिरुत्तमैः
एवन्ते मुनयो बालं ब्रह्मा लोकपितामहः ।स्रम्बोध्य प्रेषयामास भूयोऽप्येवं परन्तप !
तीर्थयात्रां गता विप्रा मार्कण्डेयो निजं गृहम् ।जगाम गत्वा तं विप्रं पितरं तथाब्रवीत्
”इति पाद्मे सृष्टिखण्डे ३० अध्यायः
अपरञ्च ।व्यास उवाच ।“मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः ।तथा ते कथयिष्यामि शृणु वत्स ! महामते !
भृगोः पौत्त्रो महाभागो बालत्वे महाद्युतिः ।ववृधे वल्लभो बालः पिता तस्य कृतक्रियः
तस्मिन् वै जातमात्रे आदेशी कश्चिदब्रवीत् ।वर्षे द्बादशमे पूर्णे मृत्युरस्य भविष्यति
शुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः ।तौ दृष्ट्वा दुःखसम्पन्नौ मार्कण्डेयो महामतिः
उवाच वचनं तत्र किमर्थं दुःखमीदृशम् ।वक्तुमर्हसि दुःखस्य कारणं मम पृच्छतः
कथयामास तत् सर्व्वमादेशी यदुवाच ।तत् श्रुत्वा तौ मुनिः प्राह मातरं पितरं पुनः
पित्रा सार्द्धं त्वया मातर्न कार्य्यं दुःखमन्वहम् ।अपनेष्यामि मे मृत्युं तपसा नात्र संशयः ।यथा चाहं चिरायुः स्यां तथा कुर्य्यामहं तपः
सूत उवाच ।इत्युक्त्वा तौ समाश्वास्य पितरौ वनमभ्यगात् ।तत्र विष्णुं प्रतिष्ठाप्य गन्धपुष्पादिभिः क्रमात् ।पूजयामास देवेशं मार्कण्डेयो महामुनिः
पूजयित्वा हरिं तत्र तपस्तेपे सुदुष्करम् ।निराहारो मुनिस्तत्र वर्षमेकमतन्द्रितः
मात्रोक्तमरणासन्नदिने तत्र महामतिः ।स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्च्चनम्
हृदि कृत्वेन्द्रियग्रामं विशुद्धेनान्तरात्मना ।आसनं स्वस्तिकं बद्ध्वा कृत्वासौ प्राणसंयमम्
ओँकारीच्चारणाद्धीमान् हृदि पद्मं विकाशयन् ।तन्मध्ये रविसोमाग्निमण्डलानि यथाक्रमम्
कल्पयित्वा हरेः पीठं तस्मिन्नेव सनातनम् ।पीताम्बरधरं विष्णुं शङ्खचक्रगदाधरम् ।ब्रह्मरूपं हरिं ध्यायंस्ततो मनुमुदीरयन्
इत्येवं ध्यायतस्तस्य मार्कण्डेयस्य धीमतः ।मनस्तत्रैव संलग्नं देवदेवजगत्पतौ
ततो यमालयात्तत्र आगता यमकिङ्कराः ।पाशहस्तास्तु तं नेतुं विष्णुदूतैस्तु ते हताः
मुषलैर्हन्यमानास्ते इदमुक्त्वा पुनः पुनः ।वयं निवृत्ता गच्छामो मृत्युरेवागमिष्यति
आगत्य स्वयमेवात्र मृत्युः पार्श्वे महात्मनः ।मार्कण्डेयस्य बभ्राम विष्णुकिङ्करशङ्कया
ते चाप्युद्गम्य मुषलान्यभ्ययुर्विष्णुकिङ्कराः ।विष्ण्वाज्ञया हनिष्यामो मृत्युमस्येति संस्थिताः
ततो विष्ण्वर्पितमना मार्कण्डेयो महामतिः ।तुष्टाव प्रणतो भूत्वा देवदेवं जनार्द्दनम्
विष्णुनैवोपदिष्टन्तु स्तोत्रं कर्णे महात्मनः ।स्वभावितेन मनसा तेन तुष्टाव माधवम्
ओँ नमो भगवते वासुदेवाय ।नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।प्रणतोऽस्मि हृषीकेशं किन्नो मृत्युः करिष्यति
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति
वासुदेवं जगद्योनिं भानुमन्तमतीन्द्रियम् ।दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति
शङ्खचक्रधरं देवं छद्मरूपिणमव्ययम् ।अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति
बाराहं वामनं विष्णुं नारसिंहं जनार्द्दनम् ।माधवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति
पुरुषं पुष्करं बीजं क्षेमबीजं जगत्पतिम् ।लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति
भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् ।विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति
सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति
इत्युदीरितमाकर्ण्य स्तोत्रं तत्र महात्मनः ।अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ।प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम्
मृत्य्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् ।मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच
”श्रीभगवानुवाच ।“य इदं पठते भक्त्या त्रिकालं नियतः शुचिः ।नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः
”व्यास उवाच ।“हृत्पद्ममध्ये पुरुषं पुराणंनारायणं शाश्वतमादिदेवम् ।सञ्चिन्त्य सूर्य्यादपि राजमानोमृत्युं योगी जितवांस्तदैव
”इति नारसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नामअध्यायः
(मार्कण्डेयेन प्रोक्तम् मार्कण्डेय+ अण् पुराणविशेषः यथा, देवीभाग-वते -- ।“शृण्वन्तु संप्रवक्ष्यामि पुराणानि मुनीश्वराः ।”इत्यारभ्य --तथा ग्रहसहस्रन्तु मार्कण्डेयं महाद्भुतम्
”)