| YouTube Channel

मारुतव्रतं (mArutavrataM)

 
शब्दकल्पद्रुमः
Sanskrit
मारुतव्रतं,
क्ली,
(मारुतस्य व्रतमिव व्रतं नियमो-ऽस्य ।) राजधर्म्मविशेषः यथा, --“प्रविश्य सर्व्वभूतानि यथा चरति मारुतः ।तथा चरैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्
”इति मात्स्ये २०० अध्यायः