मारुतः (mArutaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiहवा
Apte Hindi
Hindiमारुतः
- -
हवा
मारुतः
- -
"वायु का देवता, पवन की अधिष्ठात्री देवता "
मारुतः
- -
श्वास लेना
मारुतः
- -
"प्राण, शरीर के तीन मूल रसों (वात, पित्त, कफ) में से एक"
मारुतः
- -
हाथी की सूंड
Wordnet
Sanskrit वायुः, वातः, अनिलः, पवनः, पवमानः, प्रभञ्जनः, श्वसनः, स्पर्शनः, मातरिश्वा, सदागतिः, पृषदश्वः, गन्धवहः, गन्धवाहः, आशुगः, समीरः, मारुतः, मरुत्, जगत्प्राणः, समीरणः, नभस्वान्, अजगत्प्राणः, खश्वासः, वाबः, धूलिध्वजः, फणिप्रियः, वातिः, नभःप्राणः, भोगिकान्तः, स्वकम्पनः, अक्षतिः, कम्पलक्ष्मा, शसीनिः, आवकः, हरिः, वासः, सुखाशः, मृगवाबनः, सारः, चञ्चलः, विहगः, प्रकम्पनः, नभः, स्वरः, निश्वासकः, स्तनूनः, पृषताम्पतिः, शीघ्रः
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
"वायुं विना जीवनस्य कल्पनापि अशक्या।"
मारुतः
एकः जनसमूहः ।
"मारुताणां उल्लेखः महाभारते वर्तते"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Tamil
Tamilமாருத: : காற்று, வாயு, பிராணன், வாதம்.
शब्दकल्पद्रुमः
Sanskritमारुतः, (मरुदेव । मरुत् + “प्रज्ञादिभ्यश्च ।”५ । ४ । ३८ । इति स्वार्थेऽण् ।) वायुः ।इत्यमरः । १ । १ । ६५ ॥
म्रियतेऽनेन क्रुद्धेननाम्नीति मृ ङ उत् मरुत् मरुदेव मारुतःस्वार्थे ष्णः । इति तट्टीकायां भरतः ॥
(यथा, मनौ । ४ । १२२ -- १२३ ।“अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् ।रुचिरे च श्रुते गात्राच्छस्त्रेण च परिक्षते ।सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥
)अस्योत्पत्तिर्यथा, --कश्यप उवाच ।“पुत्त्रस्ते भविता भद्रे ! इन्द्रहा देवबान्धवः ।संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥
”अञ्जो यथावत् ।“संवत्सरं पुंसवनं व्रतमेतदविप्लुतम् ।धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥
वाढमित्यभ्युपेत्याथ दिती राजन् ! महामनाः ।कश्यपाद्गर्भमाधत्त व्रतञ्चाञ्जो दधार सा ।मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ! ॥
शुश्रूषणेनाश्रमस्थां दितिं पर्य्यचरत् कविः ।एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ! ॥
प्रेप्सुः पर्य्यचरत् जिह्मो मृगस्येव मृगाकृतिः ।नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते ! ॥
चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवंत्विह ॥
एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्षिता ।अस्पृष्टवार्य्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥
लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः ।दितेः प्रविष्ट उदरं योगेशो योगमायया ॥
चकर्त्त सप्तधा गर्भं वज्रेण कनकप्रभम् ॥
रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ।तमूचुः पाट्यमानास्ते सर्व्वे प्राञ्जलयो नृप ! ॥
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ।मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः ॥
अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ।न ममार दितेर्गर्भः श्रीनिवासानुकम्पया ॥
सजूरिन्द्रेण पञ्चाशत् देवास्ते मरुतोऽभवन् ।व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥
दितिरुत्थाय ददृशे कुमाराननलप्रभान् ।इन्द्रेण सहितान्देवी पर्य्यतुष्यदनिन्दिता ॥
अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।अपत्यमिच्छन्त्यचरं ब्रतमेतं सुदुष्करम् ॥
एकः सङ्कल्पितः पुत्त्रः सप्तसप्ताभवन् कथम् ।यदि ते विदितं पुत्त्र ! सत्यं कथय मा मृषा ॥
इन्द्र उवाच ।अम्ब ! तेऽहं व्यवसितमुपधार्य्य गतोऽन्तिकम् ।लब्ध्वान्तरोऽच्छिनं गर्भमर्थबुद्धिर्न धर्म्मदृक् ॥
कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः ।तेऽपि चैकैकशो वृक्नाः सप्तधा नापि मम्रिरे ॥
ततस्तत्परमाश्चर्य्यं वीक्ष्य व्यवसितं मया ।महापुरुषपूजायाः सिद्धिः काप्यानुषङ्गिकी ॥
तदिदं मम दौर्ज्जन्यं बालिशस्य महीयसि ! ।क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥
श्रीशुक उवाच ।इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया ।मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥
”इति श्रीभागवते ६ स्कन्धे १८ अध्यायः ॥
(जनपदविशेषः । यथा, महाभारते । ६ ।४७ । ४९ -- ५० ।“मारुता धेनुकाश्चैव तङ्गणाः परतङ्गणाः ।वाह्लीकास्तित्तिराश्चैव चोलाः पाण्ड्याश्चभारत ! ॥
एते जनपदा राजन् ! दक्षिणं पक्षमा-श्रिताः ॥
”अग्निभेदः । यथा, गृह्यसंग्रहपरिशिष्टे । १ । २ ।“अग्निस्तु मारुतो नाम गर्भाधाने विधीयते ॥
”मरुत्सम्बन्धिनि, त्रि । यथा, ऋग्वेदे । २ । ११ । १४ ।“रासि क्षयं रासि मित्रमम्मे रासि शर्ध इन्द्रमारुतं नः ॥
”“मारुतं मरुतां देवविशां सम्बन्धि ।” इतितद्भाष्पे सायणः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
