| YouTube Channel

मारितः (mAritaH)

 
शब्दकल्पद्रुमः
Sanskrit
मारितः,
पुं,
(मार्यते नाश्यते भस्मीक्रियत इति ।मृ + णिच् + कर्मणि क्तः ।) नष्टीकृतः भस्मी-कृतः यथा, भावप्रकाशे ।“असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत् ।करोति रोगान् मृत्युञ्च तद्धन्यात् यत्नतस्ततः
”अपि ।“पूर्व्वं वङ्गसमं तालं क्षिप्त्वाम्लेन विमर्द्दयेत् ।ततो गजपुटे पक्त्वा पुनरम्लेन मर्द्दयेत्
तालेन दशमांशेन याममेकं ततः पुटेत् ।एवं दशपुटैः पक्वं वङ्गं भवति मारितम्
”अपरञ्च ।आर्द्रत्वञ्च घनत्वञ्च तेजो गौरवचापलम् ।यस्यैतानि दृश्यन्ते तं विद्यान्मृतसूतकम्
”अन्यच्च ।“शुद्धो रसो भवेद्ब्रह्मा मूर्च्छितस्तु जनार्द्दनः ।मारितो रुद्ररूपी स्यात् बद्धः साक्षात् सदा-शिवः
”इति वैद्यदर्पणः