| YouTube Channel

मारणं (mAraNaM)

 
Apte 1890
English
मारणं [मृ-णिच् ल्युट्] 1 Killing, slaying, slaughter, destruction
पशुमारणकर्मदारुणः Ś. 6. 1.
2 A magical ceremony performed for the purpose of destroying an enemy.
3 Calcination.
4 A kind of poison.
Hindi
Hindi
(नपु) की हत्या
शब्दकल्पद्रुमः
Sanskrit
मारणं,
क्ली,
(मार्य्यते इति मृ + णिच् + भावेल्युट् ।) वधः इत्यमरः ११४
(यथा, मनौ ३८ ।“यावन्ति पशुरोमाणि तावत्कृत्वो मारणम् ।वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि
”)अभिचारविशेषः यथा, --“एवन्तु मारणं देवि ! विशेषात् कथयामिते ।सान्तं वह्निसमायुक्तं वामनेत्रविभूषितम्
कूर्च्चयुग्मं ततो देवि ! अमुकं मारय मारय ।चतुर्दशाक्षरो मन्त्रो स्वाहान्तः शत्रुनाशकः
खदिराङ्गारमादाय कुजाष्टम्यां विशेषतः ।लेखयेत् पुत्तलीं शत्रुस्वरूपां लौहपत्रके
निशायां मस्तके नेत्रे ललाटे हृदये करे ।नाभौ गुह्ये कटौ पृष्ठे क्रमोक्तेन पदद्वये
मन्त्रवर्णान् समालिख्य प्रतिष्ठां तत्र कारयेत् ।संहारमुद्रां बद्ध्वा तु ध्यायेद्देवीं जयप्रदाम्
दीर्घाकारां कृष्णवर्णां सदार्द्धस्तनमस्तकाम् ।नृमुण्डयुगलं हस्तं चर्व्वयन्तीं दिगम्बरीम्
शत्रुनाशकरीं देवीं ध्यायेत् शत्रुक्षयाय ।एवं ध्यात्वेष्टिकाचूर्णैर्व्वामहस्तेन शङ्करि !
ओँशत्रुनाशकर्य्यै नमः इति दत्त्वा महेश्वरि ! ।हरिद्राचूर्णसहितां धारां दद्यादनेन तु
अमुकस्य शोणितं पिब पिबेति तत्परम् ।मांसं खादय खादय ह्रीँ नम इति मन्त्रम्
मध्याह्ने मध्यरात्रौ तु पूजयित्वा शताष्टकम् ।जपेदेकादशाहे रोगः स्यान्नात्र संशयः
दण्डाधिकैकविंशाहे मृत्युरेव रिपोर्भवेत्
*
अथवान्यप्रकारेण शत्रुक्षयमहं वदे ।पुंगोशकृत् समादाय पूजयेदुष्णवारिणा
विपरीतक्रमेणैव जपपूजादिकं चरेत् ।महादेवाय नम इति पुंगोशकृत् समाहरेत्
शिवाय नम इति मन्त्रेण घटनञ्च समाचरेत् ।पशुपतये नम इति प्राणान् संस्थापयेत्ततः
लौहपात्र महेशानि ! खदिराङ्गारयोगतः ।शत्रुप्रतिकृतिं लिख्य तत्र संस्थापयेत् शिवम्
ततो ध्यायेन्महारुद्रं ध्यानन्तु सुसमाहितः ।शत्रोर्व्वक्षःस्थितं रुद्रं ज्वलदग्निसमप्रभम्
वामहस्तधरं केशं दक्षिणं प्राणकर्षणम् ।नरचर्म्माम्बरं देवं महाव्यालादिवेष्टितम्
पिनाकधृक् इहागच्छागच्छ इत्यादिनावाह्ययत्नतः ।शूलपाणये नम इति स्नापयेत् साधकोत्तमः
महेश्वराय नम इति पाद्यादिना प्रपूजयेत् ।ईशानादिस्तथा मूर्त्तिर्व्युत्क्रमेण प्रपूजयेत्
अग्निकोणादिपर्य्यन्तं पूर्व्वरीत्या महेश्वरि ! ।नमः शिवायेति मूलमष्टाविंशति संजपेत् ।हुँ क्षमस्वेति वामेन करेण तु विसर्ज्जयेत्
अजित केशव विष्णो हरे सत्य जनार्द्दन ।हंस नारायण स्वाहा मन्त्रमेव सकृज्जपेत्
हुँ नमो भगवते वासुदेवाय स्वाहा नम इत्यपिसकृज्जपेत् ।एवमेकादशाहेन शत्रूच्छेदनमञ्जसा ।अवश्यं जायते देवि ! सत्यं सत्यं त्रिलोचने !
”इति योगिनीतन्त्रे पूर्व्वखण्डे पटलः
अपि ।“गृध्रास्थिञ्च गवास्थिञ्च मूत्रनिर्म्माल्यमेव ।अरेर्यो निखनेत् द्वारे पञ्चत्वमुपयाति सः
”इति गारुडे १८६ अध्यायः