| YouTube Channel

मारकः-रिका (mArakaH-rikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मृङ् प्राणत्यागे”@} 2 ‘मृणाति हिंसार्थे प्वादेर्मृङस्तु म्रियते पदम्।।’ 3 इति देवः।
मारकः-रिका, मारकः-रिका, मुमूर्षकः-र्षिका, मेम्रीयकः-यिका
मर्ता- मर्त्री, मारयिता-त्री, मुमूर्षिता-त्री, मेम्रीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि जौहोत्यादिकपिपर्तिवत् 4 ज्ञेयानि।
5 म्रियमाणः 6, 7 मरिष्यन्-न्ती-ती, 8 9 मुमूर्षन्, 10 अमृतम्, 11 मरः-अमरः, 12 दुर्मरम्, 13 14 मुमूर्षा, 15 इतीचिप्रत्यये रूपमेवम्।
म्रियते इति मरीचिः = रश्मिः, ऋषिविशेषश्च।]] मरीचिः, 16 इत्युप्रत्यये रूपम्।
म्रियन्तेऽस्मिन् प्राणिनः सलिलार्थिन इति मरुः = जलतृणविवर्जितो देशः।]] मरुः, 17 इति त्युक्प्रत्यये, कित्त्वाद् गुणनिषेधे रूपमेवम्।]] मृत्युः, 18 इत्यूकप्रत्ययः।
मरूकः = प्राणिविशेषः।]] मरूकः, 19 इत्युतिप्रत्यये रूपमेवम्।
मरुत् = वायुः, देवो वा।]] मरुत्, 20 इति तन्प्रत्यये रूपमेवम्।
मर्तः = प्राणी।
मर्तशब्दात्, ‘नवसूरमर्तयविष्ठेभ्यो यत्’ 21 इति स्वार्थे यत्प्रत्यये मर्त्यः इति सिद्ध्यति।
मर्त्यः = मनुष्यः।]] मर्तः-मर्त्यः इती- मान्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३०१)
02
=>
(६-तुदादिः-१४०३। अक। अनि। आत्म।)
03
=>
(श्लो। ३४)
04
=>
(१०४४)
05
=>
[[२। शानचि, ‘तुदादिभ्यः--’ (३-१-७७) इति शप्रत्यये, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे इयङादेशे रूपमेवम्।]]
06
=>
[[आ। ‘म्रियमाणः सुग्रीवं प्रोचे सद्भावमागतः।’ भ। का। ६। १४१।]]
07
=>
[[३। ‘म्रियतेर्लुङ्लिङोश्च’ (१-३-६१) इत्यात्मनेपदस्य नियमितत्वात्, स्यप्रत्ययस्य शित्प्रत्ययत्वादिनिदानाभावादत्र परस्मैपदं भवति। विस्तरस्तु माधवधातुवृत्त्या- दिषु बोध्यः। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमोऽत्रेति विशेषः।]]
08
=>
[श्वा]
09
=>
[[४। सन्नन्ताच्छतरि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वात्, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युकारे, रपरत्वे च, ‘हलि च’ (८-२-७७) इति दीर्घः। अत्र, ‘पूर्ववत् सनः’ (१-३-६२) इति शानज् न, म्रियतिधातुमात्रस्यात्मनेपदनिमित्तत्वाभावात् शिल्लुङ्लिङां निमित्तत्वात्। अतो यथासभ्भवं परस्मैपदप्रयोग उपपन्नः। तथा भाष्ये (३-१-७) प्रयुक्तम् ‘श्वा मुमूर्षति’ इति। अत्र शुनश्चेतनत्वात् जीवितस्य प्रियत्वात् व्याध्याद्यभिभवेऽपि तिर्यक्त्वात् मर्तुमिच्छा नास्तीत्यत इच्छार्थकस्सन् न, अपि तु ‘आशंकायाम्--’ (वा। ३-१-७) इति वार्तिकेन आशंकने (आशंसने) सन्-इति बोध्यम्। शङ्के, श्वा मुमूर्षति (मुमूर्षन् अस्ति) इति वाक्यार्थः। स्पष्टमिदं ‘धातोः कर्मणः--’ (३-१-७) इत्यत्र भाष्य-कैय- टादिषु।]]
10
=>
[[५। म्रियते इत्यमृतम्। ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३-२-१८८) इत्यत्र चका- रस्यानुक्तसमुच्चयार्थत्वात् वर्तमाने क्तः। ततो नञ्समासः।]]
11
=>
[[६। पचाद्यचि--मरः। नञ्समासे अमरः = देवः।]]
12
=>
[[B। ‘अकाले दुर्मरमहो यज्जीवामस्तया विना।।’ भ। का। ६। १४।]]
13
=>
[पृष्ठम्१०४७+ २८]
14
=>
[[आ। ‘ज्याघुष्टकठिनाङ्गुष्ठं राममायान्मुमूर्षया।।’ भ। का। ५। ५७।]]
15
=>
[[१। ‘मृकणिभ्यामीचिः’ [द। उ। १-३८]
16
=>
[[२। ‘भृमृ--’ [द। उ। १-९२]
17
=>
[[३। ‘भुजिमृङ्भ्यां युक्त्युकौ [द। उ। १। १३५]
18
=>
[[४। ‘मृकणिभ्यामूकोकणौ’ [द। उ। ३। ४४]
19
=>
[[५। ‘मृग्रोरुतिः’ [द। उ। ६। १]
20
=>
[[६। ‘हसिमृ--’ [द। उ। ६-७]
21
=>
(वा। ५-४-३६)
1 {@“मॄ हिंसायाम्”@} 2 प्वादिः, ल्वादिश्च।
‘मृणाति हिंसार्थे प्वादेर्मृङस्तु म्रियते पदम्।।’ 3 इति देवः।
मारकः-रिका, मारकः-रिका, मुमूर्षकः-मिमरिषकः-मिमरीषकः-षिका, मोमुरकः-रिका
मरिता-मरीता-त्री, मारयिता-त्री, मुमूर्षिता-मिमरिषिता- मिमरीषिता-त्री, मोमुरिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि जौहोत्यादिक पिपर्तिवत् 4 ज्ञेयानि।
5 मृणन्-मृणती, 6 मूर्णम्-मूर्णः-मूर्णवान्, 7 मूर्णिः, इतीमानि रूपाण्यस्माद् भवन्ति।
प्रासङ्गिक्यः
01
=>
(१३१३)
02
=>
(९-क्र्यादिः-१४९२। सक। सेट्। पर।)
03
=>
(श्लो। ३४)
04
=>
(१०५५)
05
=>
[[१। शतरि क्र्यादित्वात् श्नाप्रत्यये, ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे णत्वे रूपमेवम्।]]
06
=>
[[२। धातोरुत्वे रपरत्वे ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठानत्वे, दीर्घे णत्वे रूपमेवम्।]]
07
=>
[[३। ‘ऋल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नत्वे उत्वादिके रूपमेवम्।]]