मायासीता (mAyAsItA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
पुराणम्
Englishमायासीता / MĀYĀSĪTĀ. When rāma and lakṣmaṇa were in exile in the forests with sītā, rāvaṇa came to carry away sītā. At that time the real sītā disappeared in agni and in her place a false sītā was installed. It was this phantom sītā who was carried away by rāvaṇa and who lived in laṅkā till the time of Rāvaṇa's death. It was this māyāsītā whom rāma asked to jump into the fire to test her purity. At that time māyāsītā disappeared and the real sītā came out from the fire. (See under sītā).
शब्दकल्पद्रुमः
Sanskritमायासीता, (मायाकल्पिता सीता ।) योगेनअग्निकृतसीताप्रतिकृतिः । यथा, --अग्निरुवाच ।“भगवन् ! श्रूयतां वाक्यं कालेन यदुपस्थितम् ।सीताहरणकालोऽयं तत्रैव समुपस्थितः ॥
दैवञ्च दुर्निवारञ्च न च दैवात् परं बलम् ।मत्प्रसूं मयि संन्यस्य छाया रक्ष्यान्तिकेऽधुना ॥
दास्यामि सीतां तुभ्यञ्च परीक्षासमये मम ।देवैः प्रस्थापितोऽहञ्च न च विप्रो हुता-शनः ॥
रामस्तद्बचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् ।स्वीचकार च स्वच्छन्दं हृदयेन विदूयता ॥
वह्निर्योगेन सीताया मायासीतां चकार सः ।तद्रूपगुणसर्व्वांशां ददौ रामाय नारद ! ॥
सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च ।लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ॥
लङ्कां गत्वा रघुश्रेष्ठो जघान शायकेन च ।सबान्धवं रावणञ्च सीतां संप्राप दुःखिताम् ॥
ताञ्च वह्निपरीक्षाञ्च कारयामास सत्वरम् ।हुताशस्तत्र काले च वास्तवीं जानकीं ददौ ॥
उवाच छाया वह्निञ्च रामञ्च विनयान्विता ।करिष्यामीति किमहं तदुपायं वदस्व मे ॥
”वह्निरुवाच ।“त्वं गच्छ तपसे देवि ! पुष्करञ्च सुपुण्यदम् ।कृत्वा तपस्यां तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ॥
सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः ।दिव्यं त्रिलक्षवर्षञ्च स्वर्गलक्ष्मीर्ब्बभूव ह ॥
सा च कालेन तपसा यज्ञकुण्डसमुद्भवा ।कामिनी पाण्डवानाञ्च द्रौपदी द्रुपदात्मजा ॥
कृते युगे वेदवती कुशध्वजसुता शुभा ।त्रेतायां रामपत्नी सा सीतेति जनकात्मजा ॥
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा ।त्रिहायंणीति सा प्रोक्ता विद्यमाना युगत्रये ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १४ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
