| YouTube Channel

मायातिः (mAyAtiH)

 
Apte
English
मायातिः [māyātiḥ], A sacrifice to men.
Apte 1890
English
मायातिः The sacrifice to men.
शब्दकल्पद्रुमः
Sanskrit
मायातिः,
पुं,
(मायया सह अतति यद्बा, माअततीति अत + “अज्यतिभ्यां ।” उणा०४ १३० इति इण् ।) नरबलिः यथा, --“मायातीनाञ्च निर्णीतं श्रूयतां मुनिसत्तम ! ।वक्ष्याम्यथर्व्ववेदोक्तं फलहानिर्व्यतिक्रमे
पितृमातृविहीनञ्च युवकं व्याधिवर्जितम् ।विवाहितं दीक्षितञ्च परदारविहीनकम्
अजारिकं विशुद्धञ्च सच्छूद्रं मूलकं वरम् ।तद्बन्धुभ्यो धनं दत्त्वा क्रीतं मूल्यातिरेकतः
स्नापयित्वा तं धर्म्मी संपूज्य वस्त्रचन्दनैः ।माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः
तञ्च वर्षं भ्रामयित्वा चरद्वारेण यत्नतः ।वर्षान्ते समुत्सृज्य दुर्गायै तं निवेदयेत्
अष्टमीनवमीसन्धौ दद्यान्मायातिमेव ।इत्येवं कथितं सर्व्वं बलिदानप्रसङ्गतः
बलिं दत्त्वा स्तुत्वा धृत्वा कवचं बुधः ।प्रणम्य दण्डवद्भूमौ दद्याद्बिप्राय दक्षिणाम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १६ अध्यायः